________________ 74 ] शासवार्तासमुच्चयस्य . [ तृतीयः (शास्त्रवार्ता०) प्रधानोद्भवमन्ये तु, मन्यन्ते सर्वमेव हि / भहदादिक्रमेणेह.कार्यजातं विपश्चितः॥१८॥ अन्वयः- अन्ये, तु, विपश्चितः, इह, सर्वम् , एव, कार्य्यजातम् , महदादिक्रमेण, प्रधानोद्भवम् , मन्यन्ते, हि। (अव०) अन्ये-अपरे / तु-पुनः / विपश्चित:-विद्वांसः, सांख्यमतावलम्बिनो मनीषिण इति यावत् / इह-कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताविचारणायाम् / सर्वम्-निखिलम् / एवअवधारणार्थकमव्ययम् / कार्यजातम्-कार्यकदम्बकम् / महदादिक्रमेण-'प्रकृतेर्महाँस्ततोऽहङ्कारः" इत्यादिरीत्या महत्तत्वादिद्वारेण / प्रधानोद्भवम्-प्रकृत्युत्पन्नम् / मन्यन्ते-स्वीकुर्वन्ति / हि-निश्चयेन / "हि हेताववधारणे" इत्युक्तेः // 18. तथाहि-पुरुषः, प्रकृतिः महत्त. त्वम् (बुद्धितत्त्वम्) अहङ्कारः, उदात्तादिविशेषरहित--सूक्ष्म-शब्द-रूप. रस-गन्ध स्पर्शात्मक-पञ्चतन्मात्राणि, ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकमनोरूपाण्येकादशेन्द्रियाणि पश्चभूतानि चेति पश्चविंशतिस्तत्त्वानि सांख्यैः स्वीकियन्ते / तथा चोक्तं सांख्यकारिकायाम् प्रकृतेमहांस्ततोऽहङ्कारस्तस्माद्गुणश्च षोडशकः / तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि // 22 // मूलप्रकृतिरविकृतिमहदाद्याः प्रकृतिविकृतयः सप्त / षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः // 3 // तत्र कारणतारहितः कार्य्यतारहितः पुष्करपलाशवनिर्लेपः कूट