________________ स्तबकः ] कल्पलतावतारिका [73 (कल्पलतावतारिका) ___ . इत्येवम्-पूर्वकथितप्रकारेण / सत्तर्कसम्पर्कभाक्-सन्तः समीचीनाश्च ते तर्का ऊहाः सत्तास्तैः सम्पर्कः सम्बन्ध: सत्तर्कसम्पर्कस्तं भजते सेवते इति सत्तर्कसम्पर्कभाक् / पटुः-समर्थः / ईश्वरव्यतिकरः-परमेश्वरसम्बन्धः, वीतरागतीर्थङ्करात्मपरमेश्वरसाधनं वा / येषाम्-यादृशानां जनानाम् / मनः-चित्तम् / विस्मितम्विस्मययुक्तम् आश्चर्य्यरसाविष्टमिति यावत् / न-नहि / तनोतिकरोति, सम्पादयतीति यावत् / नाम-कोमलामन्त्रणे / ते-तादृशाः / वामाशया:-कुटिलाभिप्रायाः, दुष्टचेतस इति यावत् / तु-किन्तु / अस्माकम्-आर्हतानाम् ; वीतरागप्रणीताऽऽगमपरिपक्कबुद्धीनां जैनानामिति यावत् / एक:-अद्वितीयः / सः-प्रसिद्धः / देवाधिदेवः-देवश्रेष्ठः, जिनेश्वर इति यावत् / एव-अवधारणार्थकमव्ययम् / शरणम्रक्षकः, गतिरिति यावत् / "शरणं गृहरक्षित्रोर्वधरक्षणयोरपि" इति मेदिनी / यस्य-तीर्थकृतो जिनेश्वरस्य / सुखाम्भोधौ-सम्मदसिन्धौ / बिन्दवः-पृषत: / इव-यथा / स्वःसद्मनाम्-स्वः- स्वर्गः सद्म- गृहं येषान्ते स्वःसद्मानस्तेषान्तथा देवानामित्यर्थः / सम्पदः-सम्पत्तयः / भवन्ति-जायन्ते / देवानां सम्पदो यदीयशर्मसमुद्रबिन्दुतुल्या इति भाव: / उपमालङ्कारः / / .. // समाप्ता च नैयायिकवार्ता // अथ वार्तान्तरमाह-प्रधानोद्भवमित्यादि