________________ 72 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः ( शास्त्रवार्ता० ) शास्त्रकारा महात्मानः, प्रायो वीतस्पृहा भवे / सत्त्वार्थसम्प्रवृत्ताश्च, कथं तेऽयुक्तभाषिणः।।१५॥ अन्वयः- शास्त्रकाराः, प्रायः, महात्मानः, भवे, वीतस्पृहाः, सत्त्वार्थसम्प्रवृत्ताश्च, कथं, ते, अयुक्तभाषिणः / (अव) शास्त्रकारा:-दर्शनप्रवर्तकाः कपिलप्रमुखाः / प्राय:बहुशः चार्वाकादीन् पापप्रवर्तकान् त्यक्त्वा। महात्मानः-धर्मवृत्तितः प्रकृष्टपुरुषाः / भवे-संसारे / वीतस्पृहा:-गताभिलाषाः, न तु धनमानप्रसिद्धि लिप्सान्विताः। सत्त्वार्थसम्प्रवृत्ताश्च-यथानुभवं परहिता. र्थप्रवृत्ताश्च / ततः कथं ते अयुक्तभाषिणः-ज्ञात्वा विरुद्धार्थोपदेशिनः / परहितार्थप्रवृत्तेविरुद्धार्थोपदेशित्वस्य च परस्परं न साहचर्यं जलज्वलनवत् / एवमीश्वरविचारणायामुपाध्याया उपसंहरन्ति इत्येवमिति(कल्पलता) इत्येवं पटुरीश्वरव्यतिकरः, सतर्कसम्पर्कभाग , येषां विस्मितमातनोति न मनस्ते नाम वामाशयाः। अस्माकं तु स एक एव शरणं, देवाधिदेवः सुखाम्भोधौ यस्य भवन्ति बिन्दव इव, स्वःसद्मनां सम्पदः॥६॥ अन्वयः- इत्येवम् , सत्तर्कसम्पर्कभाक् , पटुः, ईश्वरव्यतिकरः, येषां, मनः, विस्मितम् , न, आतनोति, नाम, ते, वामाशयाः, तु. अस्माकम् , एकः, स:, देवाधिदेवः, एव, शरणम् , यस्य, सुखाम्भोधौ, बिन्दवः इव, स्वःसद्मना, सम्पदः, भवन्ति /