________________ स्तवकः ] कल्पलतावतारिफा [71 ईदृशकल्पनायां को गुण इति चेत्तदुच्यते-अयमीश्वरः कर्ता इतीश्वरवाक्ये यत: केषाश्चित्तथाविधभद्रकविनेयानामादरो भवत्यतस्तदानुगुण्येन परमात्मनः कर्तृत्वोपदेशस्याऽऽवश्यकत्वम् / यतः श्रोतृभावाभिवृद्धयर्थो हि गुरोरुपदेशः सा च कल्पितोदाहरणेनापि निर्वापते किं पुनरुपचारेणेति भावः / __साक्षादपि कर्तृत्वं समर्थयति परेत्यादिना(शास्त्रवार्ता०.) परमैश्वर्ययुक्तत्वाद्, मत आत्मैव वेश्वरः / स च कर्तेति निर्दोषः, कर्तृवादो व्यवस्थितः // 14 // - अन्वयः-वा, परमैश्वर्ययुक्तत्वात् , भात्मा, एव ईश्वरः, मतः, स च, कर्ता, इति, निर्दोषः, कर्तृवादः, व्यवस्थितः / (अव०)वा-अथवा / परमैश्वर्ययुक्तत्वात्-सर्वातिशयितसम्पत्तिसम्पन्नत्वात् / आत्मा एव-चेतनः खलु / ईश्वरः-ईशः। मतःसम्मतः। स च-आत्मा एव / कर्ता-विधाता / इति-एवञ्च / निर्दोषःदोषकलापरहितः / कर्तवादः-जगत्कर्तृविचारः / व्यवस्थितः-सङ्गतः / एवं कर्तृवादव्यवस्थायां- "उत्तमः पुरुषस्त्वन्यः, परमात्मेत्युदाहृतः / यो लोकत्रयमाविश्य, बिभर्त्यव्यय ईश्वरः // " इत्यादिकमप्युपपत्तिमद्भवति / आवृतस्वरूपत्वादनावृतस्वरूपस्य भिन्नत्वात्, चैतन्यात्मकमहासामान्येन लोकत्रयावेशाद् ग्राह्याकारक्रोडीकृतत्वेन तद्भरणाच, इत्यादिरीत्या पराभिप्राय आगमानुसारेण यथावदुपपादनीयः / इतरग्रन्थकृतामप्यभिप्राय उपपादनीय इत्यत्र हेतुमाह शाखेति