________________ 7. ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः (अव०) ततश्च-पातञ्जलनैयायिकमतनिरासाच / अयम्तथाविधलोकप्रसिद्धः / ईश्वरकर्तृत्ववादः, परम्-उक्तविपरीतरीत्या / सम्यग्न्यायाविरोधेन-प्रतितर्काप्रतिहततर्कानुसारेण / युज्यते, यथा शुद्धबुद्धयः-परमर्षयः। आहुः-कथयन्ति / ... ____शुद्धबुद्धिपरमर्षीणां वचनमनुवदति ईश्वर इति(शास्त्रवार्ता) ईश्वरः परमात्मैव, तदुक्तव्रतसेवनात् / यतो मुक्तिस्ततस्तस्याः,कर्ता स्याद्गुणभावतः॥११॥ ___ अन्वयः-ईश्वरः, परमात्मैव, तदुक्तव्रतसेवनात्, यतः, मुक्तिः, ततस्तस्याः, गुणभावतः, कर्ता, स्यात् / (अव०) ईश्वरः-परमात्मा-अनन्तज्ञानदर्शनसम्पदुपेतो वीतराग एव / वीतराग एवेश्वरपदेनोच्यते परमात्मेत्यर्थः / तदुक्तव्रतसेवनात्-परमाप्तप्रणीताऽऽगमविहितसंयमपालनात् / यतः-कर्मक्षयरूपा मुक्तिर्भवति / ततस्तस्या गुणभावतः-राजादिवदप्रसादनियतप्रसादाभावेऽप्यचिन्त्यचिन्तामणिवद्वस्तुस्वभावबलात् फलदोपासनाकत्वेनोपचारात् / कर्ता स्यात् / अत एव भगवन्तमुद्दिश्याऽऽदिप्रार्थना। अथैवमप्यस्तु मुक्तिकर्तृत्वम् / भवकर्तृत्वन्तु कथमुपपद्यते इत्ति चेत् , उच्यते यस्माद्धेतोस्तदुक्तव्रतपालनाभावात् परमार्थत: संसारोऽपि जीवस्य भवति, तस्याऽविरतिमूलत्वात् / तेन हेतुना संसारकर्तृत्वस्याप्युपपत्तेः।