________________ स्तवकः ] कल्पलतावतारिका [66 (कल्पलतावतारिका) - जिनः-भगवान् अर्हन् / नय:-द्रव्यार्थिकपर्यायार्थिकप्रसिद्धनयः, नीतिभिश्च / परान्-अन्यान् किं पुनः स्वानितिभावः / अपि-अपि: समुच्चयार्थकः / “अपि सम्भावनाप्रश्नशङ्कागर्दासमुच्चये" इति मेदिनी / अनुकूलवृत्तौ-अनुकूला धर्मादिसहकारिणी वृत्तिर्वतनं व्यवहारो वा यस्मिन् सोऽनुलवृत्तिस्तस्मिँस्तथा / विनोदे-आनन्दे / प्रवर्तयतिप्रेरयति / एव-अवधारणार्थ कमव्ययम् / वास्तविकानन्दप्रवर्तको भगवान् जिन इति भावः / विषयमिमं दृष्टान्तेन समर्थति-- उक्तानुवादेन पितेत्यादिना / पिता-जनकः / हितात्-कल्याणात् , हित. बुद्धयेति यावत् / उक्तानुवादेन-उक्तस्य बालेन कथितस्य अनुवादः पुनरुच्चारणम् , उक्तानुवादस्तेन तथा / बालस्य-बालकस्य स्वपुत्रस्येति यावत् / आलस्यम्-विनोदादिप्रतिबन्धकमलसभावं मन्दतामिति यावत् , विच्छायत्वमिति हृदयम् / न-नहि / अपाकरोति-दूरीकरोति / किम्-प्रश्नार्थकमव्ययम् / 'किं कुत्सायां वितर्के च निषेधप्रश्नयोरपी'. तिमेदनी / यथा कश्चित्पिता बालकप्रसन्नताहेतवे तदुदीरितमेव वचः पुन: पुनरुच्चारयति तथैव जिनः परदर्शनिप्रसन्नताहेतवे तत्स्वीकृतमीश्वरकर्तृत्ववादं स्वीकरोति वक्ष्यमाणप्रकारेण स्वमतसंरक्षकमिति भावः / तदिदमाह-ततश्चेश्वरेत्यादि(शास्त्रवार्ता) ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् / सम्यग्न्यायाविरोधेन, यथाहुः शुद्धबुद्धयः॥१०॥ अन्वयः-ततश्च, अयम् , ईश्वरकर्तृत्ववादः, परं सम्यग , न्यायाविरोधेन, युज्यते, यथा, शुद्धबुद्धयः, आहुः /