________________ 68] शास्त्रवार्तासमुच्चयस्य [ तृतीयः एव, पक्षम् , आश्रयः, सम्प्रति, तव, ईश्वरकर्तृतायाः, मनोरथम् , उच्चकैः, पूरयामः / ( कल्पलतावतारिका ) नैयायिकमुख्य!-मुखं वदनमिव प्रधानत्वान्मुख्यः प्रथम:, नैयायिकेषु मुख्यो नैयायिकमुख्यस्तदामन्त्रणे तथा, नैयायिकप्रवरेति यावत् / उदयनाचार्येतितात्पर्य्यम् / तदीयकारिकाया एक विवरणपूर्वकखण्डनात्। तस्मात्-स्वपक्षस्थ खण्डितत्वात् / सन्तुष्यसन्तोषमाधाय / सन्तोषं धेहीति वा / सन्तुष्येति पदस्य क्त्वाप्रत्ययेन पञ्चमीमध्यमपुरुषैकवचनात्मकप्रत्ययेन चोभयथासाधनात् / अग्रथमअग्रगण्यम् , श्रेष्ठमित्यर्थः / अस्माकम्-आर्हतानाम् / एव-अवधारणार्थकमव्ययम् / तेनान्यस्य व्यवच्छेदः / पक्षम्-मतम् , सिद्धान्तवादं वा / आश्रय-अवलम्बस्त्र / सम्प्रति-अधुना / तब-नैयायिकस्य ईश्वरकर्तृतायाः-ईश्वरकर्तृकजगत्कर्तृत्ववादस्य / मनोरथम्-अभिलाषम् / उच्चकैः-सातिशयम् / पूरयामः-परिपूर्णीकुर्मः / ईश्वरकर्तृत्वविषयकनैयायिका भिलाषस्य वक्ष्यमाणरीत्या प्रपूरणात् / अत्र "तस्मादस्मा" इत्यत्र च्छेकानुप्रासो नामालङ्कारः। ईश्वरकर्तृत्ववादस्वीकारेऽपि भवेदस्माकं पक्षस्यैव संसिद्धिर्न तु नैयायिकपक्षस्येति वस्तु ध्वन्यते। (कल्पलता) नयैः परानप्यनुकूलवृत्तौ, प्रवर्तयत्येव जिनो विनोदे / उक्तानुवादेन पिता हितात् किं बालस्य नालस्यमपाकरोति // 5 // अन्वय:-जिनः, नयैः, परान् , अपि, अनुकूलवृत्तौ, विनोदे, प्रवर्तयति, एव, पिता, हितात् , उक्तानुवादेन, बालस्य, आलस्यम् , न, अपाकरोति, किम् /