________________ स्तवकः 1 कल्पलतावतारिका [ 67 प्रत्ययादिनेति कारिकोक्तेन हेतुनाऽपि वेदप्रामाण्यवादिनामाप्त. तद्वक्तृसिद्धावपि नेश्वरस्य सिद्धिः, अतस्तदुपन्यासेनालम् / एतेन कार्यादिपदानामर्थान्तरमपि प्रयासमात्रम् / “जन्यतत्प्रमासामान्ये तत्प्रमात्वेन गुणतया हेतुत्वात् आद्यप्रमाजनकप्रमाश्रयतयेश्वरसिद्धिः" इति तु वचनं युक्तिशून्यम् / घटत्वादिमद् वृत्तिविशेष्यतया तत्र घटत्वादिविषयतत्वेनैव हेतुतयासंस्कारेणैव घटत्वादिसम्बन्धहेतुतयैव वा नैयायिकस्यापि निर्वाहात् / अस्माकमाईतानान्तु सम्यग्दर्शनस्यैव गुणत्वात् / संख्याविशेषादपि नेश्वरसिद्धिः, द्वथणुकपरिमाणजनिकायां संख्यायां नैयायिकस्यापि लौकिकापेक्षाबुद्धेरेव कारणत्वात् ममाऽऽर्हतस्यापि लौकिकापेक्षाबुद्धेरेव तथान्यवहारनिमित्तत्वात् तज्जन्याति. रिक्तसंख्यासिद्धिसम्भवात् / परिमाणेऽपि संघातभेदादिकृतद्रव्यपरिमाणविशेषरूपे संख्याया अहेतुत्वाच / द्विकपालात् त्रिकपालघटपरि. माणोत्कर्षस्य दलोत्कर्षादेवोपपत्तेः / अत्रत्यमधिकं तत्त्वमाहतवार्ताया. माकलनीयम् / तस्मादीश्वरसिद्धौ न किमपि साधीयः प्रमाणम् , न वा तदभ्युपगमेनापि तस्य सर्वशत्वम् उपादानमात्रसिद्धावप्यतिरिक्तज्ञानासिद्धेः, कारणाभावात् मानाभावाच्चेति नैयायिकानुपहसन्त्युपाध्यायाःसन्तुष्येति(कल्पलता) मन्तुंम्प नैयायिकमुख्य ! तस्मादस्माकमेवाश्रयपक्षमप्रथम् / सवोचकैरीश्वरकर्तृताया मनोरथं सम्प्रति पूरयामः // 4 // अन्वयः-नैयायिकमुख्य ! तस्मात् , सन्तुष्य, भप्रथम् , भस्माकम् ,