________________ 66 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः "गां नय” इत्यादि नियोज्य घटाद्यानयनादि संपाद्य बालकस्य व्युत्पत्ती प्रयोजकः, तथेश्वरोऽपि प्रयोज्यप्रयोजकवृद्धीभूय व्यवहार कृत्वाऽऽद्यव्युत्पतिं कारयति / ____ न चात्र चेष्टया प्रवृत्तिम् , तया ज्ञानम् , तज्ज्ञाने उपस्थितवाक्य. हेतुत्वम्, तज्ज्ञानविषयपदार्थे चावापोद्वापाभ्यां तत्तत्पदज्ञानहेतुत्वमनुमाय तत्तत्पदे तत्तदर्थज्ञानानुकूलत्वेन तत्तदर्थवत्त्वसम्बन्धवत्त्वमनुमेयम् / एवञ्चायं सम्बन्धग्रहो भ्रमः स्यात्, जनकज्ञानस्य भ्रमत्वात् इति वाच्यम् / तत्त्वेऽपि विषयाऽबाधेन प्रमात्वात् चरमपरामर्शस्य प्रमात्वसम्भवाच्च / एवमीश्वर एव कुलालादिशरीरं परिगृह्य घटादिसम्प्रदायप्रवर्तकः, अत एव श्रुति:- . "कुलालेभ्यो नमः, कर्मारेभ्यः" इत्यादीति चेत्, अत्रोपाध्यायाःईश्वरस्थादृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहस्यैवायुक्तत्वम् / अन्यदीयमदृष्टमादाय शरीरपरिग्रह इति चेत्-अन्यादृष्टेनाऽन्यस्य शरीरपरिग्रहे चैत्रादृष्टाकृष्टं शरीरं मैत्रोऽपि. परिगृहीयात् / प्राण्य. दृष्टेन घटादिवत् तच्छरीरोत्पत्ति: तत्परिग्रहस्तु भगवतस्तदावेश एवेति न दोष इति चेत् न, घटादावतथात्वेऽपि तदीयशरीरे तदीयादृष्टत्वेनैव हेतुत्वात् , अन्यथाऽतिप्रसङ्गात् / तस्माद् मायाविवत् समयग्राहकत्वम् घटादिसम्प्रदायप्रवर्तकत्वश्च पराभिमतेश्वरस्य मायावितामेव विद्याधरविशेषस्य व्यञ्जयति, पितुरिव पित्रादेर्युगादौ युगादीशस्य जगतः शिक्षया तु तथात्वं युक्तिमत् , स्वभावत एव तीर्थकृतां परोपकारित्वात् , अत एव "कुलालेभ्यो नमः" इत्याचा श्रुतिः सङ्गच्छत इति युक्तमुत्पश्यामः / /