________________ स्तवकः ] . कल्पलतावतारिका सिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात् / तथाचोक्तम्• निरालम्बा निराधारा, विश्वाधारा वसुन्धरा / यच्चावतिष्ठते तत्र, धर्मादन्यद् न कारणम् // युक्तमेवैतत् , ईश्वरस्य व्यापकत्वेन समरेऽपि शरपाताऽनापत्तेः। पतनाभावावच्छिन्नेश्वरप्रयत्नस्य तथात्वे तादृशज्ञानेच्छाभ्यां विना विनिगमनाविरहात् , क्लप्तजातीयस्यादृष्टस्यैव ब्रह्माण्डधारकत्वकल्पनौचित्यात् / नचाऽऽत्माऽविभुत्ववादिनः (कायप्रमाणात्मवादिनः ) जैनस्य सम्बन्धानुपपत्तिः असम्बद्धस्यापि तत्का>जननशक्तस्य तत्कायंकारित्वात् अयस्कान्तस्याऽसम्बद्धस्यापिलोहाकर्षकत्वात्। प्रयत्नस्य तु विलक्षणप्रयत्नत्वेन पतनप्रतिबन्धकसंयोगविशेष एव हेतुत्वमिति / ब्रह्माण्डनाशकतयाऽपि नेश्वरसिद्धिः। यदि प्रलयः स्यात्तदा तजनकप्रयत्नशालितयेश्वरसिद्धिः सम्भाव्येत, स एव नास्ति प्रलयानभ्युपगमात् / कुत: पुनरीश्वरसिद्धिः / कुतः प्रलयानभ्युपगम इति चेत्, अहोरात्रस्याऽहोरात्रपूर्वकत्वव्याप्यत्वात् / यदि प्रलयः स्यात् तदाऽनायाससिद्धो मोक्षः, किं पुनर्ब्रह्मचर्यादिक्तेशानुभवेन / ___ एतेन “श्राद्यव्यवहारादीश्वरसिद्धिः, प्रतिसगै मन्वादीनां बहूनां व्यवहारप्रवर्तकानां कल्पने गौरवादेकस्यैव भगवतः सिद्धेः” इत्यपास्तम्। सर्गादेरेवाऽसिद्धः / इदानीमिव सर्वदा पूर्वपूर्वव्यवहारेणैवोत्तरोत्तरव्यवहारोपपत्तेः / यदि तु सर्गादि: स्वीक्रियते तदा तदानी प्रयोज्य. प्रयोजकवृद्धयोरभावात् कथं व्यवहारस्तदीयव्यवहारदर्शनेनैव च तटस्थबालकानां सङ्केतग्रहस्य व्यवस्थितत्वात्, व्यवहारस्यैव च शक्तिग्राहकशिरोमणित्वात् / अथ यथा मायावी सूत्रसंवाराधिष्ठितदारपुत्रकं “घटमानय"