________________ 64 ] शास्त्रवार्तासमुच्चयस्य [तृतीयः एवमायोजनादपि नेश्वरसिद्धिः- ईश्वराधिष्ठानस्य सर्वदा सत्त्वेऽप्यदृष्ट विलम्बादेवाद्याणुक्रियाविलम्बात् / तत्रादृष्टहेतुत्वावश्यकत्वात् / दृष्टकारगणसत्त्वे एवाऽदृष्टविलम्बन कार्याविलम्बात् / अदृष्टम्य दृष्टाघातकत्वात् / चेष्टात्वस्यानुगतत्वेनोपाधित्वाच्च स्वभाव. ववृत्तित्वेन हेतोर्व्यभिचारित्वानुमापकत्वात् तदवच्छिन्न एव हि जीवनयत्नव्यावृत्तेन प्रवृत्तित्वेन गमनत्वादिव्याप्यत्वे तु विलक्षण-.. यत्नत्वेनेय हेतुत्वात् क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् / एवं धृतेरपि नेश्वरसिद्धिः--गुरुत्ववत्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याऽऽम्रफलादावेव व्यभिचारित्वात् हेतौ प्रतिबन्धकाभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवद् बागपतनाभावे व्यभिचारात् वेगाप्रयुक्तत्वस्यापि विशेषणत्वे मन्त्रविशेष युक्तगोलकपतनाभावे तथात्वात् अदृष्टाप्रयुक्तत्वस्या प विशेषणत्वे च स्वरूपा. अथोपाध्यायोपज्ञोक्तसूत्रप्रतिसूक्तार्थः। अये- जगत्कर्तृपरमेश्वरप्रतिपादनपराः ! भूतानाम्-जन्तुजातानां / मितसमयदेशस्थिति:- परम्तिकालदेशावच्छिन्नावस्थानम् / स्वभावात्-निसर्गत एव भवति / इति-अतः कारणात् ।इयं भवनियमसिद्धिव्यवसिति:- ईश्वरस्य जगत्कर्तृत्वेन साधनाय व्यवसायायास: / पिष्टं पनिष्टि-सिद्धं साधयति / तथा च तर्कव्यसनिनाम्-तर्ककर्कशधियां भवतां नैयायिकसांख्यमुख्यानाम् / सततम्- अनवरतम् / अपि-पुनः। इयं भ्रान्तिः का-काऽसौ भ्रमजालविलासिता / यत्यतो हेतोः / जगति-भुवने / जगदीशस्य-महेश्वरस्य / कथित:-विविधवचनरचनाप्रपञ्चप्रपञ्चितः / व्यापार:-प्रयत्नः / वृथा- विफल: / विश्वव्यवस्थाविधानाय परमेश्वरस्य वैरूपप्यकल्पनमनर्थकमिति भावः /