________________ स्तवकः ] कल्पलतावतारिका [63 युक्तं चैतत् "जं जहा भगवया दिष्ट्रं तं तहा विपरिणमइ” इति भगवद्वचनस्यापीत्थमेव व्यवस्थापितत्वात् / अत एव * समालोच्य क्षुद्रेष्वपि भुवननाथस्य भुवने, नियोगाद् भूतानां मितसमयदेशस्थितिलयम् / अये ! केयं भ्रान्तिः सततमपि मीमांसनजुषां, व्यवस्थातः कार्ये जगति जगदीशाऽपरिचयः॥ इति पद्येऽपि प्रतिपद्यमाहुरुपाध्यायाः पिनष्टीयं पिष्टं भवनियमसिद्धिव्यवसितिः, स्वभावाद् भूतानां मितसमयदेशस्थितिरिति / श्रये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां, वृथा यद्वयापारो जगति जगदीशस्य कथितः॥ * ( टिप्पणं )-प्रथमः श्लोक ईश्वरस्य जगत्कर्तृत्वमङ्गीकुर्वताम् / श्लोकस्यान्वयमुखोऽर्थश्चेत्थमनुसन्धेयः / अये- अनीश्वराः, ईश्वरस्य जगत्कर्तृत्वमनङ्गीकुर्वाणाः / भुवने-जगति / भुवननाथस्य-जगतोपतेः / नियोगात्-अनुशासनतः / भूतानाम्, ( मध्ये )-प्राणिजातानां मध्ये / क्षुद्रेध्वपि- कीटपतङ्गादितुच्छतमेष्वपि / मितसमयदेशस्थितिलयम् - परिमितकालक्षेत्रावस्थानावसानौ। समालोच्य- सम्यक् समीक्ष्य / स्थितानामितिशेषः / मीमांसनजुषाम्-विचारतत्पराणां मीमांसकानाम् , भवतामिति यावत् / सततम् - सन्ततम् / अपि इयं भ्रांन्तिः का ?- केयं भ्रमचक्रचारिता 1 यत् व्यवस्थात:- व्यवस्थितिपूर्वकम् / कार्ये जगति-विधेयात्मके विश्वे / जगदीशापरिचय:- जगन्नियन्तुरीश्वरस्यास्वीकारणम् / नित्यकुरादिक, सकर्तृकं, कार्यत्वात् , घटवत् , इत्यनुमानेन क्षित्यङ्घरादेर्विधातुः परमेश्वरस्य सिद्धावपि तदपलापः प्रष्ठधियां मीमांसामांसलमतीनां भवतामनुभवविरुद्ध इति /