________________ शास्त्रवार्तासमुच्चयस्य . [ तृतीयः कर्तीजन्यं शरीराजन्यत्वात् आकाशवत् इति विरुद्धमाध्यसाधकहेत्वात्मकसत्प्रतिपक्षदोषेणानुमानस्याप्रमाणत्वात् व्यभिचारशङ्कानिवर्तकानुकूलतर्करहितत्वरूपमप्रयोजकत्वमपि तुल्यमेव / ईश्वर साधकानुमानस्थलेऽप्यनुकूलतर्काभावात् / कर्तृत्वेन कार्यत्वेन कार्यकारणभाव एव तत्रानुकूलतर्क इति तु नाशङ्कथम् , कुलालकृतिसत्त्वे घट: कुलालकृत्यभावे घटाभाव इति विशिष्यवान्वयव्यतिरेकग्रहेण विशिष्यैव कुलाल. त्वेन घटत्वेन कार्यकारणभावग्रहात् , सामान्यतः कृतित्वेन कार्यकारणभावग्रहे मानाभावात् / न च विशेषतः कार्यकारणभावग्रहेऽपि यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपीति न्याय एव सामान्यत: कृतित्वेन कार्यत्वेन कार्यकारणभाव ग्रहे मानमिति वाच्यम् / उक्तन्याये मानाभावेन सामान्यतः कार्यकारणभावग्रहे मानाभावात् / न च कुलालकृतित्वेन घटत्वेन कार्यकारणभावस्वीकारेऽपि प्रलयात्परं सर्गाद्यकालीनो घट: कुलालकृतिजन्यो घटत्वात् इत्यनुमानेन सर्गःद्यकालीनकुलालात्मकेश्वरसिद्धिः / ईश्वरस्य कुलालत्वापत्तिस्तु नमः कुलालेभ्यो नमः कर्मकारेभ्यः" इति श्रुत्येष्टैवेतिवाच्यम् / प्रलये मानाभावात् / तथा चोक्तमुपाध्यायपादैः-तथाहीत्यादिना कार्येण तत्साधने आद्यानुमाने नानुकूलस्तर्कः / तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति तत्तत्पुरुषीयपटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेन हेतुत्वावश्यकत्वात् प्रत्यक्षत्वेन कार्यसामान्यहेतुत्वे मानाभावात् / चिकीर्षाया अपि प्रवृत्तावेव हेतुत्वात् कृतेरपि विलक्षणकृतित्वेनैव घटत्वपटत्वाद्यवच्छिन्नहेतुत्वात् / तथा चोक्तं हेमसूरिभिः- . सर्वभावेषु कर्तृत्वं, ज्ञातृत्वं यदि सम्मतम् / मतं नः सन्ति सर्वज्ञा, मुक्ता कायभृतोऽपि हि / /