________________ स्तवकः ]. कल्पलतावतारिका [61 साक्षात्कार ( प्रत्यक्ष ) विषयतानापन्ना / न-नहि / भवेदिति शेषः / बावत्-सनेन्द्रियकरणकद्राक्षासाक्षात्कारात्पूर्वमित्यर्थः। बदरीफलेऽपिकर्कन्धूफल विषयः खलु मुहुः-व.रवारम् / माधुर्यम्-मधुरताप्रकर्षः। न-नहि / उन्नीयते-सम्यगनुभूयते / किम्-वितर्कार्थकमव्ययम् / किं कुत्सायां वित च, निषेधप्रश्नयोरपि-इति मेदिनी। अपि तूनीयते इति भावः / यथा कश्चिद्राक्षाफलास्वादात्पूर्व बदरीफलमतिक्षुद्रमपि बहुमन्यते, द्राक्ष साक्षात्कारात्परं तदेव बदरीफनमवमन्यते / तथैव लोक आर्हतसिद्धान्ततत्त्वाकलनात् पूर्वमेव सांख्याक्षपादागममतिसमीचीन मन्यते,तदाकलनादनन्तरन्तु तमसमीचीनमवबुध्यते इति। अत्र काव्यानुशासनात्या निदर्शनालङ्कारः, तथा च तत्सूत्रम् - "इष्टार्थसिद्धथै दृष्टान्तो निदर्शनम्" इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य सिद्ध यै. यो दृष्टान्तः स निदर्श्यते प्राकरणिकोऽर्थोऽत्रेति निदर्शनम् इति सूत्रार्थः। अन्येषामालङ्कारिकाणां मते पुनदृष्टान्तना. मालङ्कारः / तैनिदर्शनायां दृष्टान्त न्तर्भावस्यानभ्युपगमात् ते च "दृष्टान्तस्तु सधर्मस्य वस्तुन. प्रतिबिम्बनम् / " "दृष्टान्तः पुनरेतेषां, सर्वेषां प्रतिबिम्बनम् / " इत्थं लक्षयन्ति उदाहरन्ति च / “अविदितगुणाऽपि सत्कविरिणतिः, कर्णेषु वमते मधुब राम् / अनधिगतपरिमलाऽपि हि, हरति दृशं मालतीमाला / " इत्येवं निदर्शनोदाहरणात् पार्थक्येन / तत्र तदन्तर्भावप्रकार काव्यानुशासने विशदमवलोकनीयः / नैयायिकोक्तेश्वरसिद्धिखण्डनप्रकार: . तथाहि-क्षित्रादि सकर्तृकं कार्यत्वात् घटवत्, इत्यनुमानेन क्षित्यङ्कुरादिकर्तृतयेश्वरसिद्धिः साधिता, परं तन्न स्यात्, क्षित्यकुरादिकं