________________ 60] शासवार्तासमुच्चयस्य [ तृतीयः (कल्पलता) श्रुत्वैवं सकृदेनमीश्वरपरं, सांख्याऽऽक्षपादागम, लोको विस्मयमातनोति न गिरो, यावत् स्मरेदाहतीः / . किं तावद् बदरीफलेऽपि न मुहुर्माधुर्यमुन्नीयते, यावत्पीनरसा रसाद् रसनया, द्राक्षा न साक्षात्कृता // 3 // अन्वयः- लोकः, एवम्. ईश्वरपरम्, सांख्यानपादामम् , सद् श्रुत्वा ( तावत् ) विस्मयम् , आतनोति यावत्. आर्हती:, गिर, न स्मरेत् . यावत् पीनरसा, द्राक्षा, रसात् . रसनया. साक्षात्कृता, न ( भवेत् ), तावत्, बदरीफलेऽपि, मुहुः, माधुर्य्यम् , न, उन्नीयंते, किम् / ( कल्पलतावतारिका ) लोका-दर्शनतत्त्व बुभुत्सुर्जनः / एवम्-पूर्वोक्तप्रकारेण। ईश्वरपरम्-परमेश्वरास्तित्वप्रतिपादकम् / सांख्याक्षपादागमम्-सांख्यनैया यिकसिद्धान्तनिरूपकशास्त्रम् / सकृत्-एकवारम्, श्रुत्वा-आकर्ण्य, ( तावत्- तावत्कालपर्यन्तम् ) / विस्मयम्-आश्चर्यम् / आतनोतिविस्तारयति, करोति, समधिगच्छति वा धातूनामुपसर्गयोगादन्यथाऽपि वाऽनेकार्थबोधकत्वात् / तादृशी तदीय पतिपादनशैल ति भावः / यावत्-यावत्कालपर्यन्तम् / आहती:-जनसम्बन्धिनीः, जिनप्रतिपादिता इति यावत। गिरः-सिद्धान्ततत्त्वप्रतिपादनपरा वाचः / न-नहि / स्मरेत्-स्मरणपथे समानयेत् / एतदेव दृष्टान्तेन समर्थयति किं ताव दित्यादिना / यावत्-यावत्कालपर्यन्तम् पीनरसा-परिपुष्टरसवती। द्राक्षा-गोस्तनी स्वनामप्रसिद्ध प्राधुर्य्यपरिपूर्णफल विशेषो वा / रसात्अनुरागात् / रसनया-रसनेन्द्रियेण, जिह्वयेति यावत् / साक्षात्कृता