________________ स्तवकः ] कल्पलतावतारिका [56 न चेश्वरार्दिपदस्य स्वपरता-“सर्वज्ञतातृप्तिरनादिबोधः, स्वतन्त्रता नित्यमलुप्तशक्तिः / अनन्तशक्तिश्च विभो विधिज्ञाः षडन्तरङ्गाणि महेश्वरस्य // " इत्यादिवाक्यशेषेण "ईश्वरमुपासीत्" इत्यादि विधिस्थेश्वरादिपदशक्तिग्रहात् / तथा चाभियुक्ताः-शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च / वाक्यस्य शेषाद् विवृतेर्वदन्ति, सान्निध्यतः सिद्धपदस्य वृद्धाः // " इति / एवञ्च यथा यवादिपदस्य “वसन्ते सर्वशस्यानां, जायते पत्रशातनम् / मोदमानाश्च तिष्ठन्ति, यवाः कणशशालिनः // " इत्यादिवाक्यशेषाच्छक्तिग्रहेण न कङ्ग्वादिपरता, तथेश्वरादिपदस्य न स्वपरतेत्यवसेयम् / प्रत्ययो विधिप्रत्ययस्ततोऽपीश्वरसिद्धिः "प्राप्ताभिप्रायस्यैव विध्यर्थत्वात् , नहीष्टसाधनत्वमेवविध्यर्थत्वात् / “अग्निकामो दारूणि मथ्नीयात्" इत्युक्तौ 'कुतः” इति प्रश्ने “यतो दारुमथनमग्निसाधनम्" इत्युत्तरेऽग्निसाधनत्वेन विध्यर्थवत्त्वानुमानानुपपत्तेः, अभेदे हेतुत्वेनोपन्यासानौचित्यात् / “तरति मृत्युम्" इत्यादौ विधिवाक्यानुमानानुपपत्तेश्चेष्टसाधनताया: प्रागेवबो. धात् " कुर्य्याः" "कुर्याम्" इत्यादौ वक्तसंङ्कल्पस्यैव बोधात् तत् आप्ता. भिप्रायस्यैव विध्यर्थत्वात् तादृशाभिप्रायवदीश्वरसिद्धिः / श्रुति:-ईश्वरविषयो वेदः ततोऽपीश्वरसिद्धिः / “यज्ञो वै विष्णुः” इत्यादेविध्येकवा. च्यतया “यन्न दुःखेन सम्भिन्नम्" इत्यादिवत् तस्य स्वार्थ एव प्रामाएयात् / कारिकायां वाक्यपदं वैदिकप्रशंसानिन्दावाक्यात् इत्यनुमानेनेश्वरसिद्धिः / तस्य तदर्थज्ञानपूर्वकत्वात् / संख्या "स्यामभूवम् भविष्यामि" इत्याद्युक्ता, ततोऽपीश्वरसिद्धिः, स्वतन्त्रोच्चारयितृनिष्ठाया एव तस्या अभिधानात् / अत्रोपाध्यायाः--