________________ 58 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः वाक्यादपीश्वरसिद्धिस्तथाहि-वेदः पौरुषेयो वाक्यत्वात् , भारतवत्, इत्यन्वयिनः। यत्र यत्र वाक्यत्वं तत्र तत्र पौरुषेयत्वं पुरुषप्रणीतत्वमिति नियमात् / एवञ्च वेदेऽपि पौरुषेयत्वं ( पुरुषप्रणीतत्वं ) सिद्धयति / तत्प्रणयनश्चास्मदादीनामप्रसिद्धथा न संभवतीति तत्प्रणयनकर्ता परमेश्वरः सिद्धयति / .: . कारिकायां संख्याविशेषः-द्वयणुकपरिमाणजनिका संख्या, ततोऽपि परमेश्वरसिद्धिर्भवतीत्यवसेयम् / तथाहि-इयं (द्वथणुकपरिमाणजनिका) संख्या अपेक्षाबुद्धिजन्या एकत्वान्यसंख्यात्वात् / यायैकत्वान्यद्वित्वादिसंख्या साऽपेक्षाबुद्धिजन्येतिव्याप्तेः / इत्यस्मदाद्यपेक्षाबुद्धधजन्यत्वादतिरिक्तापेक्षाबुद्धिसिद्धौ तादृशापेक्षाबुद्धथाश्रयतयेश्वरसिद्धः। न चासिद्धिः, द्वथणुकपरिमाणं संख्याजन्यम् जन्यपरिमाणत्वात्, घटादिपरिमाणवत् / न च दृष्टान्तासिद्धिः द्विकपालादिपरिमाणात् त्रिकपालादिघटपरिमाणोत्कर्षादिति संक्षेपः / अथवा परमेश्वरसाधिका कारिकेयमन्यथा व्याख्येया, तथाहि कार्य तात्पर्य वेदे, तत् यस्य स एवेश्वरः / आयोजनं सदया. ख्या वेदाः केनचिद् व्याख्याता महाजनपरिगृहीतवाक्यत्वात् / अव्याख्यातत्वे / तदर्थानवगमेऽननुष्ठानापत्तेः, एकदेशदर्शिनोऽस्मदादेश्च व्याख्यायामविश्वास इति तद्वयाख्ययेश्वरसिद्धिः / धृतिर्धारणं मेधाख्यं ज्ञानम् आदिपदार्थोऽनुष्ठानम् ततोऽपीश्वरसिद्धिः। वेदा वेदविषयकजन्यधारणान्यधारणाविषया, धृतिवाक्यत्वात् लौकिकवाक्यवत् / यागादिकं यागादिविषयकजन्यज्ञानान्यज्ञानवदनुष्ठितम् , अनुष्ठितत्वात् , गमनवत् , इति प्रयोगपदं प्रणवेश्वरादिपदम् तत्सार्थक्यात् /