________________ स्तवकः ] कल्पलतावतारिका शालिताया अस्मदादौ बाधात्ताशप्रयत्नशालितया परमेश्वरसिद्धिरिति। न च. परमाणूनां नित्यत्वात्तेषु सर्गाद्यकालीनद्ववणुककर्मजनकप्रयत्नशालितास्वीकारानेश्वरम्यातिरिक्तस्य सिद्धिरिति वाच्यम् - तेषां तादृश्यप्रयत्नवत्त्वस्वीकारे उडताहानिप्रसङ्गात् / / एवं धृतेरपीश्वरसिद्धिस्तथाहि-ब्रह्माण्डादिपतनाभाव: पतनप्रतिबन्धकप्रयोज्यः धृतित्वात् उत्पतत्पतत्त्रिपतनाभाववत, उत्पतत्पतत्रिसंयुक्तृण दिधृतिवद् वा / एतेन (धारकप्रयत्नधृतत्वव्युत्पादनेन) इन्द्राग्नियमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः / तेषां तदधिष्ठानदेशानामीश्वरावेशेनैव पतनाभाववत्वात् / तथा च श्रुतिः "एतस्य चाक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः" इति प्रशामने दण्डभूतः प्रयत्नः, आवेशम्तच्छरीरावच्छिन्नप्रयत्नवत्वमेव / सर्वावेशनिबन्धन एव च सर्वतादात्म्यव्यवहार इति / आत्मैवेदं सर्वम् ब्रह्मैवेदं सर्वम् इत्यादिकम्। कारिक यामादिपदेन नाशादपि परमेश्वरसिद्धिः, ब्रह्माण्डनाशः प्रयत्नजन्यः नाशत्वात , पाट्यमानपटनाशवत् / पदादपं श्वरसिद्धिः। पद्यते गम्यतेऽनेनेति पदं, व्यवहारः, ततः घटादिव्यवहारः स्वतन्त्र पुरुषप्रयोज्य: व्यवहारत्वात् , आधुनिककल्पित लिप्यादिव्यवहारवत् इत्यनुमानात् / न च पूर्वपूर्वकुलालादिनैवान्यथा. सिद्धि', प्रल येन तद्विच्छेदात् / प्रत्ययतः प्रमाया अपीश्वरसिद्धिः। वेदजन्यप्रमा वक्तृयथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात् , आधुनिकवाक्यजशाब्दप्रमावत् / श्रुतेर्वेदादपीश्वरसिद्धिः। वेदोऽसंसारिपुरुषप्रणीतः, वेदत्वात् . इति व्यतिरेकिणः / न च परमते साध्या प्रसिद्धिः, आत्मत्वमसंसारिवृत्ति, जातित्वात, इत्यनुमानेन पूर्व साध्यसाधनात् /