________________ शास्त्रवार्तासमुच्चयस्य [ तृतीयः र्व्यभिचारसंशयाधायकत्वात / अन्यथा पक्षेतरत्वोपाधिशङ्कया प्रसि. द्धानुमानस्यानुच्छेदप्रसङ्गात् इति प्रधानाचार्य्याः / / अन्ये तु द्रव्याणि ज्ञानेच्छाकृतिमन्ति, कार्य्यत्वात् कपालवत् / साध्यता विशेष्यतासम्बन्धेन, हेतुता च समवायेन / पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरुद्देश्यत्वाद् नांशत: सिद्धसाधनम् / न च ज्ञानेच्छाकृत्यात्मसाध्यव्यापकत्वात् / कार्य्यत्वात्मकसाधनाव्यापकतया "पर्वतो धूमवान् बढेरित्यत्र" “आन्धनसंयोग इवात्रापि" बहिरिन्द्रियाग्राह्यत्वमुपाधिः / तस्माच स्वभाववदवृत्तित्वेन हेतौ साध्याभाववद्वृत्तित्वात्मकव्यभिचारनिश्चयात्कुतोऽनुमितिरिति वाच्यम्.--अनुकूल. तर्केण हेतोळप्यतानिर्णये तदनवकाशात् / न च ज्ञानादित्रितयस्य मिलितस्य साध्यत्वेऽप्रयोजकत्वम् / मिलितत्वेनाहेतुत्वात् , प्रत्येकं सांध्यत्वे ज्ञानेच्छावत्त्वेन साधने सर्गान्तरीयज्ञानादिना सिद्धसाधनमिति वाच्यम्। मिलितत्वेन साध्यत्वेऽपि कार्यकारणभावत्रयस्य प्रयोजकत्वात् / "सर्गाद्यकालीनं द्रव्यं ज्ञान. वत् कार्यत्वात् , पक्षतावच्छेदकावच्छेदेन साध्यसिद्धः” इत्यप्याहुः / __केचित्तु-"क्षित्यादिकं सकृर्तृकं कायंत्वात्" इत्येवानुमानम् / प्रकृतविचारानुकूलविवादविषयत्वेन च क्षित्यादीनामनुगमः / सकर्तृकत्वं च प्रतिनियतकर्तृनिरूपितः सम्बन्धो व्यवहारसाक्षिकः घटादिदृष्टान्तदृष्टः, नित्यवर्गव्यावृत्त इति नानुपपत्तिरिति वदन्ति / / आयोजनादपीश्वरसिद्धिस्तथाहि-आयुज्यन्ते संयुज्यन्तेऽन्योन्य द्रव्याण्यनेनेति व्युत्पत्तेरायोजनपदं कर्मपरम् / भावप्रधाननिर्देशाञ्च कर्मत्वपरमवगन्तव्यम् / एवञ्च सर्गद्यकालीनद्वयणुककर्म प्रयत्नजन्यम् , कर्मत्वात् अस्मदादिशरीरकर्मवत् / तादृशकर्मजनकप्रयत्न.