________________ स्तवकः ] कल्पलतावतारिका [55 अस्यार्थः-का-दीश्वरसिद्धिः-कारिकायां कार्यपद भावप्रधाननिर्देशपरम् / तथा च कार्यात्-कार्य्यत्वहेतुकानुमानादीश्वरसिद्धिः / "कायं सकर्तृकम् कार्यत्वाद् घटवत्" इत्यनुमानादीश्वरसिद्धिः / न च कार्यत्वस्य कृतिसाध्यत्वलक्षणस्य क्षित्यादावसिद्धिरिति वाच्यम् / कालवृत्त्यत्यन्ताभावप्रतियोगित्वे सति प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वे सति वा सत्त्वस्य हेतुत्वात् / / पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाञ्च न कार्य्यस्य घटादेः सकर्तृकत्वसिद्ध यांऽशतः सिद्धसाधनम् / न वा पक्षतावच्छेदकस्य हेतुत्वं दोषः / “कार्यत्वं साध्यसमानाधिकरणम्" इत्येवं सहघारग्रहेऽपि “कार्य सकर्तृकम्" इति बुद्धेरभावाच्च / ___ अथ तथापि सकर्तृकत्वं यदि कर्तृसाहित्यमात्रम् तदाऽस्मदादिना सिद्धसाधनम् / यदिच कर्तृजन्यत्वम् तदा बाधोऽपि ज्ञानादेरेव जनकतया कर्तुर्जनकत्वाभावात् इति चेत्,-न, प्रत्यक्षजन्यत्वेच्छाजन्यत्वादिना साध्यतायां पूर्वोक्तसिद्धसाधनबाधादिदोषभावात् / अहष्टाद्वाराजन्यत्वस्य विशेष्यतासम्बन्धावृच्छिन्नकारणताप्रतियोगिकसमवायावच्छिन्नजन्यत्वस्य वा साध्यत्वाच्च नादृष्टजनकास्मदादिज्ञानजन्यत्वेन सिद्धसाधनम् / ___ अथात्र शरीरजन्यत्वमुपाधिः अङ्कुरादौ साध्यव्यापकतासन्देहे सन्दिग्धोपाधितासाम्राज्यात् , तदाहितव्यभिचारसंशयेनानुमानप्रतिरोधात् / लाघवाद् व्यभिचारज्ञानत्वेनैव व्याप्तिधीविरोधित्वात् / पक्षतत्समयोरपि व्यभिचारसंशयस्य दोषत्वादिति चेत्-न, प्रकृते ज्ञानत्वादिकार्यत्वाभ्यां हेतुहेतुमद्भावनिश्चयात् / लाघवतर्कावतारे तदुपाधिसंशयस्याविरोधित्वात् / अनुकूलतर्कानवतार एव सन्दिग्धोपाधे