________________ 54 ] शास्त्रवार्तासमुच्चयस्य. [ तृतीयः अन्वयः-साङ्क्षय ! गिरिशसाधने, न्यायदर्शननिवेशपेशलां, गिरं, जल्पता, त्वया, हन्त, हन्त, सम्प्रति, निजं, सकलं, कुलं, कलङ्कितम् / (कल्पलतावतारिका) सालय !-कपिलानुयायिन् सालथाचार्य्य ! गिरिशसाधनेगिरौ पर्वते शेते इति गिरिशः शङ्करः, उपलक्षणतया परमेश्वरः, तत्साधनविधौ / न्यायदर्शननिवेशपेशलाम्-न्यायदर्शनसम्बन्धिशैली. विशेषनिवेशेन सुकोमलाम् / गिरम्-वाणीम् / जल्पता-निगदता / त्वया-भवता साङ्लयेनेति यावत् / हन्त ! हन्त!- अत्यन्तखेदसूचनार्थमव्ययम् / सम्प्रति- नैयायिकरीत्यनुसरणकालेऽधुनेत्यर्थः / सकलम्-समस्तम् / निजम्-आत्मीयम् / कुलम्-वंशः / कलङ्कितम्कलङ्कयुक्तं विहितम् / नैयायिकमतप्रवेशात् / येन ते शाश्वतिको विरोधस्तन्मतप्रवेशे तवैव पराजय इति ध्वन्यते / यस्मादेवं कार्यजनकज्ञानादिसिद्धौ तदाश्रयतया बुद्धिरेव नित्या सिद्धयेत् , नत्वीश्वरः बुद्धित्वस्यैव ज्ञानाद्याश्रयतावच्छेदकत्वात् / आत्मत्वमेव ज्ञानाद्यश्रयतावच्छेदकं कुतो नेति चेत् ,-जन्यज्ञानादी. नामप्यात्माश्रिततया प्रकृत्यादिप्रक्रियाविलोपापत्तेरिति संक्षेपः / ____ इति पातञ्जलमतखण्डनप्रकारः / अथेश्वरसिद्धौ नैयायिकानां पूर्वपक्षःनैयायिकास्तु-का-योजनधृत्यादेः, पदात् प्रत्ययतः श्रुतेः / . वाक्यात् संख्याविशेषाच्च, साध्यो विश्वविदव्ययः / / इति कुसुमाञ्जलिपञ्चमस्तवकप्रथमकारिकोक्तप्रकारेण परमेश्वर साधयन्ति /