________________ स्तवकः / कल्पलतावतारिका [53 अन्यत्रापि व्यभिचारिणः ( व्यभिचारनिरूपकाधिकरणस्य ) अयोगोलकादेः पक्षतायां निवेशेऽनै कान्तिकदोषोच्छेदापत्तिप्रसङ्गात् / एवमप्यादिसर्गे तस्यैव ( परमेश्वरस्यैव ) स्वातन्त्र्यमस्त्वित चेत् कृतकृत्यस्य वीतरागस्य तस्य प्रयोजनाभावादादिसर्गनिर्माणेऽप्यप्रवृत्तः / अथेदशः परमेश्वरस्य स्वभाव एव यत्प्रयोजनाभावेऽप्यादिसर्ग स्वातन्त्र्येणैव करोति / अन्यदा त्वदृष्टाद्यपेक्षयवेति चेन्न धर्मिणः परमेश्वरस्यासिद्धी स्वभावकल्पनाधाराप्रसिद्धः प्रागुक्तस्य स्वभावस्यैवाप्रमाणत्वात् / अथैवमपि विश्वहेतुनया धर्मि-( परमेश्वर ) ग्राहकमानेन पूर्वोक्तम्वभाव एव भगवान स्वीकरणीय इति चेत् , अत्रोच्यते ईश्वरमनपेक्ष्य कर्मादेर्जगजननस्वभाव वे विभोः किश्चिन्न बाध्यते। विभोस्तु स्वातन्त्र्येण, अन्यहेतुसापेक्षतया वा जगजननम्व. भावत्वे वीतरागत्वव्यावातात् / कारणतया प्रकृतित्वप्रसङ्गाच्च कृतकृत्यत्वबाधनम् / , - न च कारण वेऽपि परिणामित्वाभावात् न प्रकृतित्वम् / प्रयोजनाभावेन जन्येच्छाया अभावेऽसि नित्येच्छासत्त्वात् न वीत. रागत्वव्याघातः / जन्येच्छाया एव रागपदार्थत्वात् / सर्गादौ रजःप्र. भृ युदेकोऽपि तत्र तत्कायंहा रतयैव गं.यते इति न कूटस्थताहानिरिति वाच्यम् / अत्रोपाध्यायाः(कल्पलता) .. . जन्यता गिारेशसाधो गिरं, न्यायदर्शननिवेशपेशलाम् / / साक्ष्य ! सम्प्रति निजं कुलं त्वया, हन्त ! हन्त ! सकलं कलङ्कितम् // 2 //