________________ 52 ] शास्त्रवार्तासमुच्चयस्य [ तृतीयः अथ च पातञ्जलाभिप्रेत ईश्वरः काँश्चिजन्तून् नरकादिफले ब्रह्महत्यादौ काँश्चित् स्वर्गादिसाधने यमनियमादौ वा शीघ्र केन हेतुना प्रेरयति। क्रीडादिप्रयोजनाभ्युपगमे रागद्वेषाभ्यां वैराग्यव्याहतिः / प्रयोजनानभ्युपगमे च तन्मूलकप्रेरणाभावात् सिद्धान्तव्याघात:, इत्युभयतः पाशारज्जुरिति / ... न च सत्त्वाः ब्रह्महत्यायमनियमादिचित्रकर्मणि स्वयमेव तमः सत्त्वोद्रेकेण तथाविधबुद्ध वंशव्यापागवेशेनैव कर्तृत्वे न प्रवर्तन्ताम्, प्रयोजनज्ञानार्थं केवलमीश्वरापेक्षा भविष्यतीति वाच्यम् / ईश्वरगत. कर्तृत्वस्य निरर्थकत्वात् / अयमाशय:-प्रयोजनज्ञानं हि प्रवर्तनार्थमुपयुज्यते / प्रवृत्तिश्च यदि स्वत एवोपपन्ना तदेश्वरसिद्धिव्यसनं गृहलब्ध एव धने विदेशगमनप्रायमिति / अचेतनस्य चेतनाधिष्ठितस्यैव कार्य्यजनन-नियमात् / ईश्वरेणाधिष्ठितं सदेव चित्रं कर्म जगत्यस्मिन् सुखदुःखादिकं फल दद्यात्तथा च भवेदेवेश्वरसिद्धिरिति चेत्, अत्रोच्यते ___ स्वतश्चित्रफल दानासमर्थे कर्मण्यभ्युपगम्यमाने स्वर्गनरकादिफलानियम दोषः स्यात् स्वत श्चत्र फलदानलमर्थे कमण्यभ्युपगम्यमाने तु हरीतकीरेकन्यायात् ईश्वरे भक्तिमात्रतासिद्धिः / अचेतनं चेतनाधिष्ठितमेव कार्यजनकमिति नियमस्य चेतनानधिष्ठितस्या प वनबीजस्याङ्करजननत्वदर्शनाद् व्यभिचारः / न च तत्रापि वनबाजं चेतनाधिष्ठितम् अचेतनत्वेऽपि कार्य जनकत्वात् अन्याचेतनवत्, इत्येवं प्रकारेण वनबीजस्यापि पक्षतायामुक्तनियमे न व्यभिचार इति वाच्यम् /