________________ स्तवकः ] कल्पलतावतारिका [51 अयं संसारी जीवो हिताहितप्रवृत्तिनिवृत्त्युपायानभिज्ञत्वात् आत्मनः सुखदुःखयोरकर्ता, अत: स्वर्ग नरकं वा परमेश्वरप्रेरितो * गच्छेत् / अज्ञानां प्रवृत्तौ परप्रेरणाया हेतुत्वावधारणात् पश्वादिप्रवृत्ती तथा दर्शनात् / अचेतनस्यापि चेतनाधिष्ठानेनैव व्यापाराच्च। अतएव भगवद्गीतायाम् -- "मयाऽध्यक्षेण प्रकृतिः, सूयते सचराचरम् / ____ तपाम्यहमहं वर्ष, निगृह्णाम्युत्सृजामि च // " इत्यनेन सर्वाधिष्ठानत्वं भगवतः श्रयते / तथा च प्रेरकत्वेन कर्ता परमेश्वरोऽभ्युपगन्तव्य एवेति पाताञ्जलाः / अत्राहताः( शास्त्रवार्ता० ) अन्ये त्वभिदधत्यंत्र, वीतरागस्य भावतः। इत्थं प्रयोजनाभावात्, कर्तृत्वं युज्यते कथम् // 4 // अन्वयः-अन्ये, तु, अत्र, इत्थम् , अभिदधति, वीतरागस्य, प्रयोजनाभावात् , भावतः, कर्तृत्वं, कथं, युज्यते / . (अव०) अन्ये तु-जैनाः / अत्र-ईश्वरविचारे। इत्थं-परीक्षन्ते। वीतरागस्य-वैराग्यवत ईश्वरस्य पातञ्जलैरभ्युपगतस्य, प्रेरकत्वे प्रयोजनाभावात् भावतः-इच्छातः / कर्तृत्वं कथं युज्यते। यो हि परप्रेरको दृष्टः स स्वप्रयोजनमिच्छन्निष्टः। ततोऽत्र व्यापिकायाः फलेच्छाया अभावाद् व्याप्यस्य परप्रेरकत्वस्याभावः सिद्धयति / व्यापकाभावस्य व्याप्याभावसाधकत्वनियमात् / निखिलेऽपि हि वह्नयभावाधिकरणे जलहृदादौ धूमाभावस्य दृष्टत्वात् / - यत्र यत्र परप्रेरकत्वं तत्र तत्र फलेच्छेति नियमात् / अनयो. ाप्यव्यापकभावाभ्युपगमात् /