________________ 50 ] शास्त्रवार्तासमुच्चयस्य [तृतीयः का-जनन तन्ववस्था, अभिव्यक्तस्यापि जनितकार्य्यस्य केनचिद् बलवता सजातीयेन विजातीयेन वा लब्धवृत्तिकेनाऽभिभवाद् भवि. ध्यत्तिकत्वेनावस्थानं विच्छिन्नावस्था / अभिव्यक्तस्य प्राप्तसहकारिसम्पत्तेरप्रतिबन्धेन लब्धबृत्तिकतया स्वकार्यकरत्वमुदारावस्था। तत्राद्यमवस्थाद्वयं प्रतिप्रसवाख्येन निर्बीजसमाधिना. हीयते / अन्त्यं तु शुद्धसत्त्वमयेन भगवद्ध्यानेनेति / अविद्याभावात् तन्नाशजन्य कथं तत्त्वज्ञान तस्य ? इति चेत्-अत एव नित्यं तत् नित्यज्ञानवत्वादेव चायं कपिलप्रभृतिमहर्षीणामपि गुरुः। / यस्य जगत्पतेर्ज्ञानमप्रतिघम्-नित्यत्वेन सर्वविषयत्वात् कचिदप्यप्रतिहतम् / वैराग्यं माध्यस्थ्यं च रागाभावादप्रतिघम् , ऐश्वर्य च बाधाभावादप्रतिघम् / तच्चाष्टविधम्-अणिमा, लघिमा, महिमा, प्राप्तिः, प्राकाम्यम् , वशित्वम् , ईशित्वम् , कामावसायित्वश्चेति / __यतो महानणुर्भवति सर्वभूतानामप्यदृश्यः सोऽणिमा / यतो लघुर्भवति सूर्य्यरश्मीनप्यालम्ब्य सूर्यलोकादिगमनसमर्थः स लघिमा। यतोऽल्पोऽपि नागनगादिमानो भवति स महिमा / यतो भूमिस्थस्याप्यङ्गल्यग्रे गगनस्थादिवस्तुप्राप्तिः सा प्राप्तिः / प्राकाम्यमिच्छानभिघातः, यत उदक इव भूमावुन्मज्जति निमजति च वशित्वम् / यतो भूतभौतिकेषु स्वातन्त्र्यम् ईशित्वम् / यतस्तेषु प्रभवस्थितिव्ययानामीष्टे, यत्र कामावसायित्वं, यतः सत्यसङ्कल्पता भवति, यथेश्वरसङ्कल्पमेव भूतभावादिति / ___धर्मश्च प्रयत्नसंस्काररूपोऽधर्माभावादप्रतिषः। एतच्चतुष्टयमन्यानपेक्षतयाऽनादित्वेन व्यवसितम्। अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्मानाश्रयत्वादिति बोध्यम् /