________________ स्तवकः ] . कल्पलतावतारिका [46 प्रेरकत्वेन-परप्रवृत्तिजनकत्वेन / ईश्वरः कर्तेष्यते-कीदृशः ? इत्याह. अचिन्त्यचिच्छक्तियुक्तः- अचिन्त्या इन्द्रियादिप्रण लिकां विनापि यथावत् सर्वविषयावच्छिन्ना या चिच्छक्तिश्चेतना तया युक्तस्तदाश्रयः तथा। अनादिसिद्धश्च-कदापि बन्धाभावात् / त्रिविधो हि तैर्बन्ध उच्यते / प्राकृतिक-वैका रिकदाक्षिणभेदात / तत्र प्रकृतावात्मताज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, यान प्रतीदमुच्यते"पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः / " इति। ये तु विकारानेव भूतेन्द्रियाहङ्कारबुद्धी: पुरुषबुद्धयोपासते, तेषां वैकारिको बन्ध: यान् प्रतीदमुच्यते "दशमन्वन्तराणीह, तिष्ठन्तीन्द्रियचिन्तकाः / भौतिकास्तु शतं पूर्ण, सहस्रं त्वाभिमानिकाः॥ बौद्धाः शतसहस्राणि, तिष्ठन्ति विगतज्वराः / " इष्टापूर्ते दाक्षिणो बन्धः, पुरुषतत्त्वानभिज्ञो हि कामोपहतमना बध्यत इति / इयञ्च त्रिविधाऽपि बन्धकोटिरीश्वरस्य मुक्ति प्राप्यापि भवे पुनरेष्यतां प्रकृतिलीनत्वज्ञानानां योगिनामिव नोत्तरा न वा पूर्वा, संसारिमुक्तात्मनामिव, इति निर्बाधमना दिसिद्धत्वम् / तथा चाह पतञ्जलि:-"क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः" इति / क्लेशा:-अविद्या-ऽस्मिता-रागद्वेषाभिनिवेशाः, कर्माणिशुभाशुभानि, तद्विपाको-जात्यायु गाः, आशया:-नानाविधास्तद. नुगुणा: संस्काराः / तैरपरामृष्टोऽसंस्पृष्टः, सर्वज्ञतया भेदाग्रहनिमित्त. काऽविद्याभावात् / तस्या एव च भवहेतु सर्वक्लेशमूलत्वात् / तथा च सूत्रम् - "अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोवाराणाम्" इति / अनभिव्यक्तरूपेणावस्थानं सुप्तावस्था, अभिव्यक्तस्यापि सहकार्यभावात्