________________ 48] शास्त्रवार्तासमुच्चयस्य [ तृतीयः - - यादृशम्य-भगवतः सर्वज्ञस्य। एश्वर्यम्-माहात्म्यम् / जगदुत्पादस्थितिध्वंसन:- संसारोत्पत्त्यवस्थितिविनाशनैः / अपङ्किलम्-पहिलं कलङ्कितं न / निर्दुष्टमित्यर्थः / निरवग्रहग्रहमहाऽऽनन्दाय-निरवग्रहो निरर्गलोऽप्रतिहत इति यावद् ग्रहो ज्ञानम् निरवग्रहप्रहः, तेन यो महाऽऽनन्द आनन्दातिशयो ब्रह्मसाक्षात्कारस्वरूपानन्द इति यावन्निरवग्रहग्रहमहानन्दस्तस्मै तथा / तम् - तादृशम् / देवम्-देवाधिदेवं प्रभु जिनेश्वरमिति यावत् / वन्दामहे-वन्दनक्रियानिरूपितकर्मताभाजनं कुर्म इत्यर्थः / प्रणमाम इति यावत् / जिनेश्वरविषयकरत्याख्यो भावः कविनिष्ठोऽभिव्यज्यते इति भावध्वनिः, अनुप्रासश्चालङ्कारः। द्वितीयस्तवके स्वतन्त्रस्य प्रत्येक कालादेर्जगत्कृर्तृत्वं निरस्य सामग्रयास्तत् समर्थितम् / अथेदानी सामग्रथामीश्वरोऽपि नित्यशुद्धबुद्धमुक्ताचिन्त्यचिच्छक्तियुतोऽनादिसिद्धश्च निक्षिप्यते कैश्चित् तं निक्षेपमसहमानाः सूरिचकचक्रवर्तिहरिभद्रसूरिपादास्तदीयपक्षव्युत्पादनपूर्वक तं निराकरिष्णवः कारिकामवतारयन्ति ईश्वरःप्रेरकत्वेनेत्यादिना(शास्त्रवार्ता) ईश्वरः प्रेरकत्वेन, कर्ता कैश्चिदिहेष्यते / अचिन्त्यचिच्छक्तियुक्तोऽनादिसिद्धश्च सूरिभिः॥१॥ अन्वयः-इह, कैश्चित् , सूरिभिः, अचिन्त्यचिच्छक्तियुक्तः, अनादिसिद्धश्च, प्रेरकत्वेन, ईश्वरः, कर्ता, इष्यते / (अव०) इह-सामग्रथाम् / कैश्चित्-सरिभिः-पातञ्जलाचार्यैः /