________________ स्तवकः ] कल्पलतावतारिका / 47 " अथ तृतीयः स्तवकः ॐ तृतीयस्तवकादिममङ्गलमाविर्भावयति लताकृत् सर्व इति(कल्पलता) सर्वः शास्त्रपरिश्रमः शमवता-माकालमेकोऽपि यत्,साक्षात्कारकृते धृते हृदि तमो, लीयेत यस्मिन् मनाक् / यस्यैश्वर्यमपङ्किलं च जगदु-त्पादस्थितिध्वंसनैस्तं देवं निरवग्रहग्रहमहा-ऽऽनन्दाय वन्दामहे // 1 // अन्वयः-यत्साक्षात्कारकृते, शमवताम् , आकालम् , एकोऽपि, शास्त्रपरिश्रमः, सर्वः, यस्मिन् , मनाक् (अपिं), हृदि, धृते (सति), तमः, लीयेत, च, यस्य, ऐश्वर्यम् , जगदुत्पादस्थितिध्वंसनैः, अपङ्किलम् , निरवग्रहग्रहमहाऽऽनन्दाय, तम् , देवम् , वन्दामहे / ( कल्पलतावतारिका ) यत्साक्षात्कारकृते-यदीयसाक्षात्कारार्थम् / “अथें कृते च तादर्थे” इति कोष: / शमवताम्-शान्तिशालिनाम् योगीश्वराणामिति यावत् / आकालम्-कालमभिव्याप्येत्यर्थः। भूतभविष्यद्वर्तमानकाल. सम्बन्धिपदार्थज्ञानपुरस्सरमिति यावत् / एकोऽपि–एकत्वसंख्याविशिष्टोऽपीत्यर्थः / शास्त्रपरिश्रमः-शास्त्रविषयकव्यवसायः / सर्व:समस्तशास्त्रविषयक इत्यर्थः / यस्मिन्-यादृशे देवे / मनाक-ईषत् / (अपि सम्भावनायाम् ) 'अपि सम्भावना प्रश्न-शङ्का गर्दा समुच्यते" इति मेदिनी / हृदि-अन्तःकरणे। धृते-अवस्थापिते। (सति ) तमः-अज्ञानान्धकारः / लीयेत-विनश्येत् / च-पुनः / यस्य