________________ 46] शाम्नवार्तासमुच्चयस्य [ द्वितीयः रिक्तदेशादिहेतुजन्य विज्ञेयम् / न च मृदोऽन्यत्र घटस्यानापत्तिरेव, काले हेतुसत्त्वेऽपि देशे कार्यानापत्तेरिति वाच्यम् / मृदजन्यत्वेन मृदवृत्तित्वस्याऽऽपाद्यत्वात्, मृदजन्यत्वञ्च जन्यतासम्बन्धेन मृद्भिन्न. त्वम् / अतो न तर्कमूलव्याप्त्यसिद्धिः / न च तत्स्वभावादेव तस्य काचित्कत्वम्. फलतस्तत्स्वभावत्वस्यैवाऽऽपाद्यत्वात् / .. तथा चोक्त सूरिपादैः अतः कालादयः सर्वे समुदायेन कारणम् / गर्भादेः कार्यजातस्य' विज्ञेया न्यायवादिभिः // 79 // न चैकैकत एवेह क्वचित्किञ्चिदपीक्ष्यते / तस्मात् सर्वस्य कार्यस्य सामग्री जनिका मता // 80 // इह जगति नियत्यादेरेकैकतः कापि किञ्चिद् घटादिकायं जायमानं न प्रतीयते / तस्माद्धतो: सर्वस्य घटादेः कार्यस्य सामग्री कार्यो पधायिका मता। सामग्या कारणकूटेनैव कार्य्यजातस्य जनननियमात् / एवं ये केवलं पुरुषार्थस्य कार्यमानहेतुत्वं वदन्ति तेऽपि भ्रान्ता एव। सत्यपि पुरुषार्थे बहुशः कार्यानुत्पादस्य दर्शनादिति सर्व सुस्थम्। सामग्रया एव हेतुत्वं, कालादेन पृथक् पृथक् / इतीदं साधयित्वाऽयं, द्वितीयः स्तवको गतः // 2 // / इति शासनसम्राट-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरु-बालब्रह्मचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतसूरिवरसन्हन्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय-कल्पलानुसारिण्यां-कल्पलतावलारिकायां द्वितीयः स्तवकः /