________________ 44] शास्त्रवार्तासमुच्चयस्य [द्वितीयः भोगप्रसङ्गात् / अतो जगहेतुत्वं कर्मण्येव नान्यत्र / पराभिमतहेतूनां व्यभिचारादिति भावः / किश्च तत्कर्मवैधुर्ये मुद्गपक्तिरपि न स्यात् / अतएव दृष्टकारणानाम दृष्टव्यञ्जय त्वम्' इति सिद्धान्तः / तदुक्तम् - यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवाऽवतिष्ठते / तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते // न च विपाककालापेक्षणात् कालवादप्रवेशम्तस्य कर्मावस्थाविशेषरूपत्वात्। नच कर्महेत्वपेक्षया वैयग्रथम् अनादित्वात् कर्मपरम्परायाः। एवञ्च केवलानां कालादीनां जगद्धेतुत्वं न तु समुदितानामिति तेषां तात्पर्य्यम् / // इति कर्मवादः // अथ सिद्धान्तवादः(शास्त्रवार्ता) तत्तकालादिसापेक्षो, विश्वहेतुः स चेन्ननु / मुक्तः स्वभाववादः स्यात्, कालवादपरिग्रहात्॥७६॥ अन्वयः- तत्तत्कालादिसापेक्षः, स:, विश्वहेतुः, चेत्, ननु, मुक्तः, स्वभाववादः, स्यात् , कालवादपरिग्रहात् / (अव०) तत्तत्कालादिसापेक्षः-तत्तत्क्षणादिसहकृतः / सः-स्वभावः / विश्वहेतुः-कालक्रमेण कार्यक्रमोपपत्तेरिति चेत् ननु-हत्याक्षेपे / स्वभाववादो मुक्तः-स्यात् / कालवादपरिग्रहात्-काल हेतुत्वाश्रयणात्। ननु क्षणकस्वभ वेनायं दोष इत्युक्त मेवेति चेत् उत्तम्, परं न युत्तम्। एकजातीयहेतु विना काय्यकजात्याऽसम्भवात् / कुर्वद्रूपत्वस्य च जातित्वाभावेन घट प्रति घटकुर्वपत्वेन हेतुत्वस्य वक्तुमशक्यत्वात् /