________________ स्तवकः ] कल्पलतावतारिका [ 43 दकम् / किन्त्वर्थसमाजसिद्धमिति वाच्यम् / नियतिजन्यत्वेनैवोपपत्तावार्थसमाजाकल्पनात् / भिन्नसामग्रीजन्यतयैकवस्तुरूपव्याघातापतेश्च / तदुक्तम्प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः / / किञ्च जगति नियतिं विना मुद्गपक्तिरपि न दृश्यते / यतो मुद्गपक्तिजनकस्वभावव्यापारादिसत्त्वेऽपि मुद्गपक्तिर्नानियता किंतु स्वरूपनियता / न चैतद् नैयत्यं स्वभावप्रयोज्यम् / स्वभावस्य कायॆकजात्यप्रयोजकत्वात् / अतिशयरूपस्यापि तस्य विशेष एव प्रयोजकत्वात् / अन्यथाऽनियतत्वेन हेतुना सर्वभावः प्रसज्यते व्यक्त्यविशेषात् / घटपटाद्यविशेषापत्तेः। // इति नियतिवादः // अथ कर्मवादः- . ( शास्त्रवार्ता०) . न भोक्तव्यतिरेकेण, भोग्यं जगति विद्यते / न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः॥६५॥ अन्वयः-भोक्तृव्यतिरेके, भोग्यं, न, विद्यते, न, चाकृतस्य, भोक्ता, स्यात् , मुक्तानां, भोगभावतः / (अव०) “भोक्तव्यतिरेकेण-चराचरे / जगति भोग्यं न विद्यते-भोग्यपदस्य ससम्बन्धिकत्वात् / नचाकृतस्य भोक्ता स्यात्-- स्वव्यापारजन्यस्यैव स्वभोग्यत्वदर्शनात् / अन्यथा मुक्तानामपि भोगभावतः