________________ 42] शास्त्रवार्तासमुच्चयस्य [ द्वितीयः कः कण्टकानां प्रकरोति तैदण्यं, विचित्रभावं मृगपक्षिणाञ्च / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रसङ्गः / / // उक्तः स्वभाववादः // अथ नियतिवादिनामभिप्रायमाह( शास्त्रवार्ता० ) नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् / ततो नयतिजा ह्येते, तत्स्वरूपानुवेधतः // 61 // . अन्वयः- यत् , सर्वे, भावाः, नियतेनैव, रूपेण, भवन्ति, ततः, तत्स्वरूपानुवेधतः, एते, हि, नयतिजाः / (अव०) नियतेनैव-सजातीयविजातीयव्यावृत्तेन स्वभावानुगतेनैव / रूपेण-यस्माद्धेतोः। सर्वे भावा भवन्ति ततस्तस्माद्धेतोहिनिश्चितम् / एते-भावाः / नियतिजा:-नैयत्यनियामकतत्त्वान्तरोद्भवाः / तत्स्वरूपानुवेधतः-नियतिकृतप्रतिनियतधर्मोपश्लेषात् / दृश्यते हि तीक्ष्णशस्त्राद्युपहतानामपि मरणनियतताभावेन मरणम् / जीवनियततया च जीवनमेवेति / किञ्च पटघटादिकं वस्तु विवक्षितकाल एव दण्डादेः विवक्षिताल्पबहुदेशव्यापि जायमानं दृश्यते तद् घटादिक वस्तु विवक्षितकाल एव ततो दण्डादेस्तावद्देशव्यापि जगति नियतं जायते, तस्माद्धेतोस्तोत् को नियतिं बाधितुं क्षमः / प्रमाणसिद्धेऽर्थे बाधाऽनवतारात् / नियतरूपावच्छिन्नं प्रति नियतेरेव कारणत्वात् / अन्यथा नियतरूपस्याप्याकस्मिकतापत्तेः, न च तावद्धर्मकत्वं न जन्यतावच्छे.