________________ स्तवकः ] . कल्पलतावतारिका [ 41 ननु नातत्स्वभावत्वं सज्जननप्रयोजकमुच्यते येनेयमापत्तिः सम्भ. वेत् / किन्तु सामग्रीमेव कार्यजनिकां ब्रूमः अश्वमाषस्य च पक्तिं प्रति स्वरूपयोग्यतैव नेति को दोष इति चेत् अत्र स्वभाववादिनः अन्तरङ्गत्वात् स्वभाव एव कार्यहेतुर्न बाह्यकारणम् / न च मृत्स्वभावाविशेषाद् घटादिका-विशेषप्रसङ्गः। "स्वस्य भावः कार्यजननपरिणतिः” इति स्वभावार्थत्वात् / तस्याश्च काय्र्यैक्यव्यङयत्वात्। नचेदेवमङ्कुरजननस्वभावं बीजं प्रागेवाङ्करं जनयेत् / सहकारिलाभा. ऽलाभाभ्यां हेतोः कार्यजननाजनने उत्पत्स्येते इति चेत् न, सहकारिचक्रानन्तर्भावेन विलक्षणवीजत्वेनैवाङ्करहेतुत्वौचित्यात् / ____ न च सहकारिचक्रस्याऽतिशयाधायकत्वं त्वयाऽपि कल्पनीयमिति तस्य तत्कार्यजनकत्वकल्पनमेवोचितमिति वाच्यम् / पूर्वपूर्वोपादानपरिणामानामेवोत्तरोत्तरोपादेयपरिणामहेतुत्वात् / अत एव कालवादाप्रवेशात् / न च चरमक्षणपरिणामरूपबीजस्यापि द्वितीयादिक्षणपरिणामरूपाङ्घराजनकत्वात् व्यक्तिविशेषमवलम्ब्यैव हेतुहेतुमद्भावो वाच्योऽन्यथा व्यावृत्तिविशेषानुगतप्रथमादिचरमपर्यन्ताकरक्षणात् प्रतिव्य वृत्तिविशेषानुगतानां चरमबीजक्षणादिकोपान्त्याकुरक्षणानां हेतुत्वे कार्यकारणतावच्छेदककोटावेकैकक्षणप्रवेशाप्रवेशाभ्यां विनिगमनाविरहप्रसङ्गात् / तथा च तज्जातीयात् कार्यात् तज्जातीयकारणानुमानभङ्गप्रसङ्ग इति वाच्यम् / सादृश्य तिरोहितवैसादृश्यनाङ्करादिना तादृशबीजादीनामनुमानसम्भवात् / प्रयोज्य. प्रयोजकमावस्यैव विपक्षबाधकतर्कस्य जागरूकत्वात् / अधिकमध्या. ममतपरीक्षायाम् / ततः स्वभावहेतुकमेव जगदिति स्थितम् / तथा चोक्तम्