________________ 40 ]. शास्त्रवार्तासमुच्चयस्य [ द्वितीयः केवलस्वभावकारणतावादिनामभिप्राय:(शास्त्रवार्ता) न स्वभावातिरेकेण, गर्भबालशुभादिकम् / यत्किञ्चिजायते लोके, तदसौ कारणं किल॥५७॥ अन्वयः-लोके, गर्भबालशुभादिकं, यत्किञ्चित् , स्वभावातिरेकेण, न जायते, तत्, असो, कारणं, किल / (अव०) यस्मात् स्वभावमतिक्रम्य, गर्भबालशुभादिकं-किश्चिदपि कार्य / लोके न जायते-तस्मादसौ स्वभावः / कारणम्-कादाचित्कत्वनियामक इत्यर्थः / आकाशादीनां कादाचिंतकत्ववद् घटादीनां कादा चित्कत्वस्येतरानियम्यत्वात् / . किञ्च सर्वे भावाः स्वभावेन विशिष्टसंस्थानादिप्रतिनियतरूपेण स्वीयस्वीयसत्तायां वर्तन्ते, नाशकाले निवर्तन्ते च, अनियतभावनिरपेक्षा भवन्ति / . ___ जगति स्वभावेन विना प्रतिनियतकालव्यापारादिसामग्रीसमवधानेऽपि मुद्गपक्तिरपि नेष्यते, यतोऽश्वमाषस्य कङ्कदुकस्य पक्तिर्न भवति / न ह्यश्वमाषे विलक्षणाग्निसंयोगादिकं नास्तीति वक्तुं शक्यते एकयैव क्रियया तत्तदन्यवह्निसंयोगात्, नचादृष्टवैषम्यात् तदपाकः, दृष्टसाद्गुण्ये तवैषम्याऽयोगात् / अन्यथा दृष्टदण्डनुन्नमपि चक्र न भ्राम्येत् / तत्स्वभावरहितादपि चेदधिकृतकार्योत्पादः स्वीक्रियेत तदाऽनिष्टप्रसंगोऽनिवारितः स्यात् / अतत्स्वभावस्य तुल्यतया मृदा कुम्भ एव जन्यते न पटादीति नियमो न स्यात् /