________________ स्तवकः ] कल्पलतावतारिका [36 केण न भवति / तथा शुभादिकम् -स्वर्गादिकम् लोके यत्किश्चित् घटादिकायं दृश्यते, तदपि कालव्यतिरेकेण न भवति / कर्मदण्डादिसत्त्वेऽपि कालान्तर एव स्वर्गघटाद्युत्पत्तेः। तस्मात् असौ कालः स्वातन्त्र्येण कर्तेति / किश्च-काल उत्पन्नानां प्रकृतपर्यायोपचयं करोति। तथा कालः प्रकृतपर्यायान्तरपर्यायभाज: करोति / तथा कालः-अजनितकारणेषु पराभिमतकारणेषु सत्सु विवक्षितकार्यमुपदधाति, अतश्च हेतोः कालःसृष्टिस्थितिप्रलयहेतुतयाऽनपलपनीयकारणताकः / ___ एवं स्थाल्यादिसन्निधाने सत्यपि कालाहते शुद्धानां विलक्षणरूपरसादिरूपविक्लितिपरिणामोऽपि न दृश्यतेऽतोऽपि कालस्य कर्तृत्वमुपपद्यते / किं बहुना-कालाभावे गर्भादि सर्वं कार्यजातमव्यवस्थयाऽनियमेनैव स्यात् / पराभिमतमातापित्रादिहेतुसन्निधानमात्रादेवाऽविलम्बन गर्भाधुत्पत्तिप्रसङ्गात् / ___ ननु कालोऽपि यद्येक एव सर्वकार्यहेतुस्तदा युगपदेव सर्वकार्योत्पत्तिः। तत्तत्काये तत्तदुपाधिविशिष्टकालस्य हेतुत्वे चोपाधीनामेवाऽऽवश्यकत्वात् / कार्यविशेषहेतुत्वमिति गतं कालवादेनेति चेत् . अत्र नव्या:-क्षणरूपः कालोऽतिरिच्यत एव, स्वजन्यविभागप्रागभावविशिष्टकर्मणस्तथात्वे जाते विभागे तदभावापत्तेः। तदाऽन्यविशिष्टकर्मणस्तथात्वेऽननुगमात् / तस्य च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वम् तत्क्षणवृत्तित्वञ्च तत्क्षणस्याप्यभेदेऽपि “इदानी क्षणः” इति व्यवहारात कालिकाऽऽधाराधेयभावसिद्धेः / अतस्तत्तत्क्षणतन्नाशानां तत्तत्पूर्वक्षणजन्यत्वाद् न क्षणिकत्वानुपपत्तिः / एवञ्च क्षणिकेनैव क्षणेन कार्यविशेषजननात् नातिरिक्तहेतुसिद्धिरिति / ..