________________ 38] शास्त्रवार्तासमुच्चयस्य [द्वितीयः श्वरः // 1 // स्याद्वाद्यभयदसार्वाः, सर्वज्ञः सर्वदर्शिकेवलिनौ / देवाधिदेवबोधदपुरुषोत्तमवीतरागाप्ताः // 2 // " इत्यभिधानचिन्तामणिः / नमःनमस्कारोऽस्तु। अनुप्रास-व्यतिरेक-रूपकालङ्कतयः / (शास्त्रवार्ता० ) कालादीनां च कर्तृत्वं, मन्यन्तेऽन्ये प्रवादिनः / केवलानां तदन्ये तु, मिथः सामग्र्यपेक्षया॥५२॥ अन्वय:-अन्ये, च, प्रवादिनः, कालादीनां, केवलानां, कर्तृत्वं, मन्यन्ते, तदन्ये, तु, मिथः, सामप्रथपेक्षया ( मन्यन्ते ) / . . ____ (अव०) अन्ये च- एकान्तवादिनः / प्रवादिनः कालादीनां केवलानां-परक्लुप्तहेतुरहितानामन्यनिरपेक्षाणामिति यावत् / कर्तृत्वम्-असाधारणत्वेन हेतुत्वं / मन्यन्ते तदन्ये तु-अनेकान्तवादिनः परमाईता इति यावत् / सामग्रथपेक्षया-सामग्रीप्रविष्टत्वेन / मथ:-परस्परम्, सहकारिलक्षणं कर्तृत्वं मन्यन्ते, इत्यर्थः / तथा च सम्मतिसूत्रम्-"कालो सहाव-णियई पुवकयं पुरिसकारणेगन्ता। मिच्छत्तं ते चेव उ, समासो हुँति सम्मत्तं / ( काल: स्वभावनियती पूर्वकृतं पुरुषकारणमे कान्तात् / मिथ्यात्वं त एव तु समासतो भवन्ति सम्यक्त्वम् ) इति / तत्र केवलकालकर्तृत्ववादिनामभिप्राय:, तथाहि-कालव्यतिरेकेण स्त्रीपुंससंयोगादिजन्यत्वेन पराभिमतस्यापि गर्भस्य जन्म न भवति / नहि तज्जन्मनि गर्भपरिणतेहेतुत्वम् .अपरिणतस्यापि कदाचिजन्मदर्शनात् / तथा कालोऽपि शीतोष्णवर्षाद्युपाधिः, तद्व्यतिरे