________________ स्तवकः ] कल्पलतावतारिका - - इति शासनसम्राट-तपागच्छाधिपति-स्वतन्त्रस्वतन्त्र-जगद्(गुरु-बालब्रह्मचारिभट्टारकाचार्यमहाराजश्रीविजयनेमिसूरीश्वरमहाराज। पट्टालङ्कारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचायश्रीविजयामृतमरिवरसन्दृब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय-कल्पलानु-7 सारिण्यां-कल्पलतावतारिकायां प्रथमः स्तवकः / * अथ द्वितीयः स्तवकः * द्वितीयस्तवकादिममङ्गल निबध्नाति अप्रतीपायेति(कल्पलता) . अप्रतीपाय दीपाय, सतामान्तरचक्षुषे / नमः स्याद्वादितन्त्राय, स्वतन्त्राय विवस्त्रते // 1 // अन्वय:--अप्रत पाय, दीपाय, सताम् , आतरचक्षुषे, स्वतन्त्राय, विवस्वते, स्याद्वादितन्त्राय, नमः / . (कल्पलतावतारिका) अप्रतीपाय-न प्रतीपं प्रतिकूलं किमपि पवनादिक यस्य तस्मै, अप्रतिहतायेति यावत् / द पाय-प्रदीपाय हृत्कन्दरावभासनपदीपात्मने / सताम्-सत्याभिलाषलसितात्मनाम् / आन्तरचक्षुषे-आभ्यन्तरनेत्रस्वरूपाय। स्वतन्त्राय-यथेच्छकरणसमर्थाय। विवस्वते-सूर्यस्वरूपाय विश्वदीगयेति यावत् / स्याद्वादितन्त्राय-अर्हच्छासनाय, जिनागमायेति यावत् / “अहंजिनः पारगतस्त्रिकालवित्, क्षीणाष्टकर्मा फमेष्ठ्यघीश्वरः / शम्भुः स्वयम्भूर्भगवाञ्जगत्प्रभुस्तीर्थङ्करस्तीर्थकरो जिने