________________ 36 ] शास्त्रवार्तासमुच्चयस्य - [प्रथमः - सम-सदनम् / सुधी:-समीचीनबुद्धिः / सोदर:-सगर्भः / पअविजयः-पद्मविजयनामा / जात:-समजनि / तेन-तादृशेन विशुद्धगुरुसम्प्रदायप्रयोज्य शुद्धविद्याभाजनेनेत्यर्थः / न्यायविशारदेन-न्यायविशारदेतिकाशीविद्वत्प्रदत्तविरुदेन, तथा च तेषामेवोक्ति:-“यस्मै न्यायविशारदत्वबिरुदं, काश्यां प्रदत्तं बुधै" रिति / महोपाध्याययशोविज. येन / रचिते-विरचिते / अत्र ग्रन्थे-कल्पलताभिधपश्चाङ्गकवाक्ये / "पश्चाङ्गक वाक्यं ग्रन्थः / " "विशयो विषयश्चैव पूर्वपक्षस्तथोंत्तरम् / निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् / " अथवा-सम्बन्धप्रयोजनज्ञानाहितशुश्रूषाजन्यश्रुतिविषयशब्दसन्दर्भो प्रन्थः / मति:-बुद्धिः / दीयताम्-न्यस्यताम् / सावधानेन विदुषा ग्रन्थोऽयमालोचनीय इति भावः / ___अन्थोऽयं विशुद्धंगुरुसम्प्रदायप्रयोज्य शुद्धविद्याभाजनन्यायवि. शारदविवेचितो नहि येन केनापि सुप्रवेश, इति व्यङ्ग यस्यैवार्थस्यभङ्गथाऽभिधानात्पर्य्यायोक्तनामाऽलङ्कारः / पर्यायोक्तस्य च वैशधेन प्रतीयमानार्थतया ध्वनावेवाऽन्तर्भाव आलोकनीयो ध्वन्यालोकादौ / "पर्यायोक्तं तु गम्यस्य वचो भङयन्तराश्रयम्" बहुत्र लक्षणश्रवणात् / अनुप्रासश्च शब्दालङ्कारो विज्ञेयः / कविनिष्ठसुधीवरगुरुवरजीतविजयनयादिविजय-सोदरपद्मविजयविषयकरत्याख्यभावस्य पर्यायोक्तान तया प्रेयोऽलङ्कारश्चाप्यवसेयः / / चरमसूक्तद्वयं प्रतिस्तवकप्रान्तेऽवतार्यम् / . आत्मसिद्धिन्तथाऽदृष्टसिद्धिं चार्वाकखण्डनम् / मङ्गलं साधयित्वा च, प्रथमः स्तवकोऽभवत् // 1 //