________________ स्तवकः ] ... कल्पलतावतारिका .[35 मे-मम यशोविजयस्य / कृते इति शेषः / किमपि-किश्चिदपि / असाध्यम्-साधनानहम् / न-नहि। सर्व सुसाध्यमिति यावत् / एतेन श्रीमन्नयविजयजिदभिधाननिजगुरौ दृढा भक्तिय॑ज्यते / तथा च वस्तुध्वनिः / . . . (कल्पलता) यस्यासन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशया, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः / प्रेम्णां यस्य च सम पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते ग्रन्थे मतिर्दीयताम् // 15 // , अन्वयः- यस्य, प्रकृष्टाशयाः, जीतविजयप्राज्ञाः, गुरवः, च, सनया, नयादिविजयप्राज्ञाः, विद्याप्रदाः, (गुरवः), भ्राजन्ते, च, यस्य, प्रेम्णाम्, सद्म, सुधीः, सोदरः, पद्मविजयः, जातः, न्यायविशारदेन, तेन, रचिते, अत्र, ग्रन्थे, मतिः, दोयताम् / . ... (कल्पलतावतारिका) यस्य-श्रीयशोविजयोपाध्यायस्य / प्रकृष्टाशया: उत्तमाभिप्रायाः। जीतविजयप्राज्ञा:-जीतविजयनामानो मनीषिणः / गुरवः-पितृव्यगुरवः / “भ्राजन्ते" इति पदस्य देहलीदीपन्यायेनोभयत्र सम्बन्धात् / भ्राजन्ते-दीप्यन्ते / च-पुनः / सनया:-नयविवेकशालिनः / नयादिविजयप्राज्ञाः-श्रीनयविजया मनीषिणः / विद्याप्रदा:-ज्ञानदातारो गुरवः / भ्राजन्ते-विराजन्ते / एतद्विशेषणं निजगुरुभिर्वाराणस्यादिस्थले स्वं नीत्वा सह स्थित्वाऽऽन्वीक्षिक्यादिविद्याः पाठिता इति व्यनक्ति। च-पुनः। यस्य-महोपाध्यायस्य / प्रेम्णाम्-प्रीतिनाम् /