SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 34 ] शास्त्रवार्तासमुच्चयस्य [ प्रथमः वादम्-सिद्धान्तवादम् / श्रयन्तु-आश्रयन्तु / संसेवन्तामिति यावत् / ऐकान्तिकात्यन्तिकशर्महेतु-परमाहतवादाश्रयणे पूर्वोक्तवार्ताश्रवण-ना. स्तिकदर्शनानुरागत्यागयोर्हेतुत्वात्काव्यलिङ्गमलङ्कारः / (कल्पलता) अभिप्रायः सूरेरिह हि गहनों दर्शनततिनिरस्या दुर्धर्षा निजमनसमाधानविधिना / . तथाप्यन्तः. श्रीमन्नयविजयविज्ञाहिभजने, .. न भग्ना चेद्भक्तिनं नियतमसाध्यं किमपि मे // 14 // अन्वयः-हि, इह, सूरेः, अभिप्रायः, गहनः, निजमतसमाधानविधिना, दुर्धर्षा, दर्शनततिः, निरस्या, तथापि, चेत्, श्रीमन्नयविजयविशांहिभजने, अन्त:, भक्तिः, न, भग्ना, मे, किमपि, असाध्यम् , न, नियतम् / (कल्पलतावतारिका) हि-निश्चयेन / इह-शास्त्रवार्तासमुच्चयात्मकग्रन्थे / सरेः-सूरि. पदभाजनमनीषिप्रवरस्य,हरिभद्रसूरेरिति यावत्। अभिप्राय:-आशयः / "आशयः स्यादभिप्राये पनसाधारयोरपि” इति मेदिनी। गहनः-कठिनः / निजमनसमाधानविधिना - स्वमतसाधकसमाधानप्रकारेण / दुर्धर्षादुःखेन धर्षितुं योग्या। दर्शनततिः-परदर्शनकदम्बकम् / निरस्यानिराकरणीया / तथापि-तादृशदर्शनततिनिराकरणरूपकार्यसत्त्वेऽपि / चेत्-यदि / श्रीमन्नयविजयविज्ञाहिभजने-उपाध्यायश्रीनयविजयजिद्गुरुप्रवरचरणसेवायाम् / अन्तः-अन्तःकरणे / भक्ति:-भजनम्। भाव इति यावत् / न-नहि / भग्ना-विनष्टा / त_ति शेषः /
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy