________________ स्तवकः ] कल्पलतावतारिका [ 33 रविकरतति:-सूर्यकिरणविस्तारो न स्यात् / न-नहि / उदेति-उदयं लभते, प्रकाशते इति यावत् / किम्-प्रश्नार्थकमव्ययम् / अपि तु प्रकाशत एवेति तात्पर्य्यम् / सूर्यकिरणसन्ततिर्यथा जगति ध्वान्तनिवृत्तिपुरस्सर प्रकाशते तथैवाऽऽस्तिकनयाः मुक्तिप्रसरहरणी नास्तिकानां युक्तिं गर्वदुर्विधामासादयन्तीति भावः / अत्र काव्यप्रकाशादिरीत्या दृष्टान्तालङ्कारः / काव्यानुशासनोक्तप्रकारेण दृष्टान्तस्य निदर्शनायामन्तर्भावान्निदर्शनैवालङ्कारः / श्रार्हतमताश्रयणाय प्रेरयति, वार्तामिति(कल्पलता) वार्तामिमामत्र निशम्य सम्यक् , त्यक्त्वा रसं नास्तिकदर्शनेषु / ऐकान्तिकात्यन्तिकशर्महेतुं, श्रयन्तु वादं परमाहतानाम् // 13 // 'अन्वयः-अत्र, इमां, वार्ता, सम्यक् , निशम्य, नास्तिकदर्शनेषु, रसं, स्यक्रवा, ऐकान्तिकात्यन्तिकशर्महेतु, परमाहतानां (आर्हतानां परं ), वादं, श्रयन्तु / (कल्पलतावतारिका) - अत्र-शास्त्रवार्तासमुच्चयात्मग्रन्थे / इमाम्-पूर्वप्रकाशिताम् / वार्ताम् - दर्शनसिद्धान्तम् / सम्यक्- अविकलम्, समीचीनतयेति यावत् / निशम्य-समाकर्ण्य / नास्तिकदर्शनेषु-चार्वाकादिदर्शनेषु / रसम्-अनुरागम् स्पृहामिति यावत् / त्यक्त्वा-सन्त्यज्य / ऐकान्तिकात्यन्तिकशर्महेतुम्-नियमेनात्यन्तकल्याणकारणम्। परमार्हतानाम्अर्हतो जिनस्येमे पाहताः, परमाश्च ते आर्हताः परमार्हतास्तेषान्तथा। यद्वा आहेतानाम्-अर्हत्सम्बन्धिनाम् / परम्-उत्कृष्टम्, परमश्रेयस्करम् /