SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 32 ] शास्त्रवार्तासमुच्चयस्य प्रथमः अन्वयः-नास्तिकानाम् , का युक्तिः, मुक्तिप्रसरहरणी, नास्ति, सा, सर्वा, आस्तिकानाम् , नयैः, गर्वात् , न, दलिता, किमु / बत, ध्वस्तालोका, ध्वान्तधारा, जगति, न स्यात्, किमु, तस्याः, उच्छेत्री, दु:सहा, रविकरततिः, न उदेति किमु ? (अवतारिका) नास्तिकानाम्-नास्त्यदृष्टं परलोको वेति मतिर्येषान्ते नास्तिका- . श्चार्वाकास्तेषान्तथा / का युकि:-कीदृशी विचारणा,कीदृशस्तों वा। मुक्तिप्रसरहरणी-मुक्तेर्मोक्षस्य प्रसरः प्रवाहो मार्गो वा मुक्तिप्रसरस्तस्य हरणी दूरीकी अपहारिका विनाशिकेति यावत्तथा / न-नहि / अस्तिवर्तते / अपितु सर्वापि तदीया युक्तिर्मुक्तिप्रसरावरोधिकैवेति भावः परन्त्विति शेषः / सा-प्रसिद्धा पूर्ववर्णिताः सर्वा निखिलाऽपि तदीया युक्तिः। आस्तिकानाम्-अस्त्यदृष्टं परलोक: सिद्धिश्चेति मतिर्येषां त आस्तिका, आर्हतादयस्तेषान्तथा / नयैः-न्यायैः सप्तनयादिभिरिति यावत् / गर्वात्-मदात् , अभिमानादिति यावत् / न-नहि / दलिता-प्रच्याविता / किमु-प्रश्नार्थकमव्ययम् / कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारिता गुणः / स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् // इति नैषधीयचरित-द्वितीयसर्गस्थ-सप्तविंशतमे श्लोके प्रश्नार्थकस्य किमु शब्दस्य दर्शनात् / बत-खेदार्थकमब्ययम् / ध्वस्तालोका-ध्वस्तो विनाशित आलोक: प्रकाशो यया सा तथा / ध्वान्तधारा-अन्धकारपरम्परा / जगति-संसारे / न-नहिं / स्यात्भवेत् / किमु-सम्भावनायाम् / तस्या:-ध्वान्तधारायाः / उच्छेत्त्रीउच्छेदनकर्ती, समुन्मूलयित्रीति यावत्। दुःसहा-दुःखेन सोढुं योग्या।
SR No.004491
Book TitleKalplatavatarika
Original Sutra AuthorN/A
AuthorAmrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1958
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy