________________ स्तवकः / कल्पलतावतारिका [31 (शास्त्रवार्ता० ) . अदृष्टं कर्मसंस्कारः, पुण्यापुण्ये शुभाशुभे / . धर्माधर्मों तथा पाशः, पर्यायास्तस्य कीर्तिताः॥१०७॥ अन्वयः-अदृष्टम् , कर्म, संस्कारः, पुण्यापुण्ये, शुभाशुभे, धर्माधर्मों, तथा पाशः, तस्य, पर्यायाः, कीर्तिताः / "अदृष्टम्" इति वैशेषिकाः / “कर्म" इति जैनाः / “संस्कारः" इति सौगताः / “पुण्यापुण्ये" इति वेदान्तिन: / "शुभाशुभे" इति गणकाः / “धर्माधर्मों" इति सांख्याः / “पाशः" इति शैवाः / एवमेते तस्य-अदृष्टस्य पाया:-प्रतिशब्दाः, मनीषिभिः कीर्तिताः / तदेवमदृष्टं भिन्नभिन्नेन नाम्ना सर्वेऽपि दार्शनिकाः स्वीकुर्वन्तीति / ___ अथानेनादृष्टेनाऽऽत्मनः कथं संयोग इति चेत्, अत्रोच्यतेअस्यादृष्टस्य हिंसाऽनृतादयो ये हेतवः पूर्वमुक्तास्तक्रियाध्यवसायपरिणत आत्मा, तेन कर्मणाऽन्योन्यसम्बन्धेन बन्धनप्राप्तेः / अमूतस्यापि मूर्तेन सहाऽऽकाशादौ संयोगस्य दर्शनात् , आत्मनोऽपि कर्मसंयोगे स्वीक्रियमाणे क्षत्यभावाच्च / अतश्च हेतोर्मुमुक्षुभिः सूक्ष्मे क्षिभिश्च क्लिष्कर्मसमूहकारणं, यथार्थपदार्थज्ञानप्रतिकूलमज्ञानविवर्धनं लोका. यतमतं विज्ञेयं, त्याज्यश्च / अत एवोक्तमुपाध्यायप्रवर :,-युक्तिरिति(कल्पलता) . युक्तिर्मुक्तिप्रसरहरणी. नास्ति का नास्तिकानां, सर्वा गर्वात् किमु न दलिता सा नयैरास्तिकानाम् // ध्वस्तालोका किमु न जगति ध्वान्तधारा बत स्यात्, किं नोच्छेत्री रविकरततिर्दुःसहोदेति तस्याः // 12 //