________________ शास्त्रवार्तासमुच्चयस्य [प्रथमः रपि कर्माधीनतैव अन्यथा ज्योतिश्चक्रादेर्गुरुत्वादिना पातादिप्रसङ्गात्। न चेश्वराधीनतैव, तस्य (ईश्वरस्य) निरस्यत्वादिति किमतिविस्तरेण ? इति स्वपक्षसिद्धथा समधिगताऽनिर्वचनीयानन्दो महोपाध्यायश्चार्वाकानुपहसति, मरीचिरिति-- (कल्पलता) मरीचिरुच्चौः समुदश्चतीयं, जैनोक्तभानोर्यददृष्टसिद्धिः। . निमील्य नेत्रे तदसौ वराक-श्चार्वाकघूकः श्रयतां दिगन्तम् // 11 // अन्वयः-तत् , जैनोक्तभानोः, मरीचिः, इयम् , अदृष्टसिद्धिः, उच्चैः, समुदञ्चति, तत्, वराकः, असो, चार्वाकघूकः, नेत्रे, निमील्य, दिगन्तम् , श्रयताम् / (कल्पलतावतारिका) यत्-यस्माद्धेतोः। जैनोक्तभानो:-जिनस्य सर्वज्ञस्य ऋषभादेरिदं जैनम्, तच्च तदुक्तं तदुपदिष्टम् जैनोक्तम् , तदेव भानुः जैनोक्तभानुस्तस्य तथा। मरीचिः-किरणरूपा / इयम्-एषा / अदृष्टसिद्धिःवादिविप्रतिपत्तिपिशाचीकवलितस्यादृष्टस्य कर्मापरपर्यायस्य सिद्धि. निष्पत्तिस्तथा। उच्चैः-सातिशयम् / समुदञ्चति-समुल्लम त / तत्-तस्माद्धेतोः / वराक:-मूर्खः / असौ-एषः। चार्वाकघूकः - चार्वाक एव घूक उलूकः चार्वाकधूकः, सूर्यकिरणमसहमान उलूक इव जैनोक्ततेजोऽसहमानश्चार्वाक इति भावः / नेत्रे-नयने। निमील्यसंकोच्य / दिगन्तम् - दिक्प्रान्तभागम् / श्रयताम् - श्राश्रयतु / रूपकमलङ्कारः। सादृश्यातिशयमहिम्नोपमानोपमेययोरभेदस्यैव रूप. कालङ्कारात् / अदृष्टे दर्शनान्तरसम्मतिं दर्शयति,-अदृष्टमिति