________________ स्तवकः ] कल्पलतावतारिका [26 पारगतागमवेदिभिः कर्मणोऽदृष्टस्य वा आत्मभिन्नद्रव्यतया फलवैचित्र्यनिर्वाहकवैचित्र्यशालितया चाङ्गीकरणादुक्तदोषानवकाशात् / तत्र पौद्गलिकत्वे इदमनुमानम्--"अदृष्टं पौद्गलिकम् आत्मानुग्रहोपघातनिमित्तत्वात् शरीरवत् / न चाप्रयोजकत्वम् , कार्यैकार्थप्रत्यासत्त्या तस्य सुखादिहेतुत्वे त्वन्नीत्याऽसमवायिकारणत्वप्रसङ्गात् / " वस्तुतो धर्माधर्मयोर्मानसप्रतिबन्धकत्वादिकल्पनापेक्षया नात्मधर्मत्वमेव कल्पनीयम् इत्यादिकं ज्ञानार्णवेऽनुसन्धेयम् / तद्वैचित्र्यमपि बन्धहेतुत्ववैचित्र्येऽपि संक्रमकरणादिकृतपरिणतप्रवचनानां सुज्ञानमेव / परेषामपि कीर्तनादिनाश्यतावच्छेदकं वैजात्यमावश्यकमेव, अश्वमेधवाजपेयादिघटितस्य गुरुत्वात् , सुखवैजात्यघटितत्त्वेनाऽवि. निगमाञ्च, समूहालम्बनकीर्तनाच्चोभयोरेव वैजात्यावच्छिन्नयोर्नाशः, अन्यथा प्रत्येकनाश्यनाशप्रसङ्गात् / तत्र किञ्चित् प्रतिबन्धकादिकल्पने गौरवाच्चेत्यलमप्रकृतपरिगृह विचारप्रपञ्चेन ? किञ्च-प्राग्जन्मकृतानां नानाकर्मणां न योगोद्देश्यत्वमस्ति, न च ततस्तजन्यफलम् , इति योगरूपप्रायश्चित्तस्याऽदृष्टनाशकत्वं विना न निर्वाहः। न च योगात् कायव्यूहद्वारा भोग एवेति साम्प्रतम् . नानाविधानन्तशरीराणामेकदाऽसम्भवादिति सुस्पष्टं न्यायालोके / न च योगस्य प्रायश्चित्तत्वस्वीकारे भवतामपसिद्धान्त इति वाच्यम् / "सव्वा वि.य पव्वजा पायच्छित्तं भवंतरकडाणं, पावाणं कम्माणं" इति प्रन्थकृता हरिभद्रसूरिणवाऽन्यत्रोक्तत्वात् / अपि च कर्मक्षयार्थितयैव मोक्षोपाये प्रवृत्तिाय्या, न तु दुःखध्वंसार्थितया, दुःखध्वंसस्य पुरुष. प्रयत्न विनैव भावात् / अतोऽपि कर्मसिद्धिः। अपि च लोकस्थिते