________________ . 281 शास्त्रवार्तासमुच्चयस्य [ प्रथमः नास्तीति चेन्न,- व्यवहितहेतोः फलपर्यन्तव्यापारव्याप्यत्वावधारणात् / तदिदमुक्तं कुसुमाञ्जलिनामकस्वग्रन्थप्रथमस्तवके न्यायाचायरुदयनमहानुभावैरपि--"चिरध्वस्तं फलायालं न कर्मातिशयं विना"इति / न च नरादिशरीरं तदुपादानवैचित्र्यादेव भोगवैचित्र्यश्च शरीरवैचित्र्यात्, शरीरसंयोगश्चाकाशादाविवाऽऽत्मन्यपीत्यदृष्टस्य क उपयोग, इति वाच्यम् -शरीरसंयोगस्याकाशादावपि सत्त्वेन तत्रापि भोगापत्तेः, उपष्टम्भकसंयोगेन शरीरस्य भोगनियामकत्वे तु तादृश. संयोगप्रयोजकतयैवादृष्टसिद्धः / . न चैवमपि राजादिपरिणतभूतानां विचित्रभोगहेतुस्वभावत्वात् , फलभेदोपपत्तौ न तदर्थं हेत्वन्तरस्यावश्यकतेति वाच्यम् / "भूतात्मक एवाऽऽत्मा न" इत्येतस्य पूर्वप्रघट्टके व्यवस्थापितत्वात् / __ अथैवमपि भोगनिर्वाहकस्याऽऽत्मधर्मस्यैवाऽदृष्टस्य कल्पनात् सर्वमिदमसङ्गतम् / “संभोगो निर्विशेषाणां न भूतैः संस्कृतैरपि” इति स्मरणात् / किश्च-चित्रस्वभावमप्यदृष्टस्याऽनुपपन्नम्,- तद्वैजात्ये मानाभावात्, तत्सत्त्वे कर्मणां विशिष्याऽदृष्टहेतुत्वे गौरवाच्च / न च कीर्तननाश्यतावच्छेदकतया तत्सिद्धिः / तत्र दृष्टत्वस्य स्वाश्रयजन्यता विशेषसम्बन्धेनाऽश्वमेवत्वादिघटितस्य वा तथात्वात् / “अन्यथा मयाऽश्वमेधवाजपेयौ कृतौ", "मया वाजपेयज्योतिष्टोमौ कृतौ' इत्यादि कोर्तननाश्यतावच्छेदकजातिसिद्धौ साङ्कर्य्यस्यापि सम्भवात् / अस्तु वा तत्कीर्तनाभावविशिष्टतत्तत्कर्मत्वेन हेतुत्वम्। अतो न समूहालम्बनहरिगङ्गास्मरणजन्याऽपूर्वस्य गङ्गास्मृतिकीर्तनादनाशे हरिस्मृतेरपि फलानापत्तिः, तज्जन्यापूर्वयोरेकस्य नाशेऽप्यपरस्य सत्त्वे गङ्गास्मृतेरपि वा फलापत्तिरिति चेदत्रोच्यते