________________ स्तवकः ] कल्पलतावतारिका [27 आत्मनो नित्यत्वे कस्यचिदेव सुख कस्यचिदेव दुःखमिति वैचित्र्यमनुपपन्नमिहेति / तद्वारयति( शास्त्रवार्ता० ) आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वाशात् / नरादिरूपं तचित्र-मदृष्टं कर्मसंज्ञितम् // 91 // अन्वयः-आत्मत्वेनाविशिष्टस्य, तस्य, नरादिरूपं वैचित्र्यं, यवशात्, तत् चित्रं, कर्मसंज्ञितम् अदृष्टम् // ___ आत्मत्वेनाविशिष्टस्य-एकजातीयस्य, तस्य-आत्मनः,नरादिरूपं वैचित्र्यं-वैलक्षण्यम् , यद्शात्-यस्माद्धेतोः, तत् चित्रम्-कार्यवैचित्र्यनिर्वाहकविचित्रशक्तिकलितम्, कर्मसंज्ञितं-कर्मापरनामकम् , अदृष्ट-सिद्धथति / तथा समानेऽपि हिं कृष्यादिप्रयत्ने सदुपायेऽपि-अकुण्ठितशक्तिकतदितरयावत्कारणसहितेऽपि-चैत्रमैत्रादीनां धनसम्पत्त्यसम्पत्तिरूपः स्वल्पबहुधान्यसम्पत्तिरूपो यः फलभेदः स युक्तथा विचा र्यमाणः क्लृप्तकारणातिरिक्तकारणमदृष्टं विना न युक्तः, सामग्रीवैषम्यस्यापि हेत्वन्तराधीनत्वमेवाभ्युपगन्तव्यम् / / एवमेव-एकजातीयदुग्धपानादौ पुरुषभेदेन सुखदुःखादितारतम्यलक्षणो य: फलभेदः सोऽतिरिक्तहेतुतारतम्य विना न युक्तोऽत. स्तुल्यारम्भेऽपि फलभेददर्शनात् चार्वाकैरनायत्या कारणान्तरमेष्टव्यम् / तदेवाध्ययनभावनागृहीतशास्त्रतात्पर्य्या आस्तिका अदृष्टं कथयन्ति / - अत्र चार्वाकाः प्रत्यवतिष्ठन्ते-ननु नरत्वादिवैचित्र्यं नरगत्याधर्जकक्रिययैव प्राम्भवीययोपपत्स्यतेऽन्तर्गडुनाऽदृष्टेन किमपि प्रयोजन