________________ 26 ] शास्त्रवार्तासमुच्चयस्य [प्रथमः निदानम् / न-नहि / किन्त्वस्मदीयाप्रतिहतयुक्तिततिकरणकाऽऽत्मसिद्धिजनितशोक एव कारणमिति भावः / अनुप्रासालङ्कारः / लोकायताननमालिन्ये वयमेव कारणमिति स्फुटतया प्रतीतेर्वस्तुध्वनिरूपमुत्तमं काव्यम् अनुष्टुप्छन्दः / “श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् , द्विचतुष्पादयोर्हस्वं सप्तमं दीर्घमन्ययोः।" इति. तल्लक्षणात् / / // इति चार्वाकमतनिरासः // अथादृष्टसिद्धिप्रकार:( शास्त्रवार्ता० ) यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः॥९॥ अन्वयः-यः कर्मभेदानां कर्ता, कर्मफलस्य च भोका, संसर्ता, परिनिता, स हि आत्मा, भन्यलक्षणः न / यः कर्मभेदानां-ज्ञानावरणादीनां कर्ता, कर्मफलस्य-सुखदुःखादेश्च भोक्ता, तथा संसर्ता-स्वकृतकर्मरूपनरकादिगतिगामी, तथा परिनिर्वाता-कर्मक्षयकारी, हि-निश्चितम् / स आत्मा, नान्यलक्षण:पराभिमतकूटस्थादिरूपः न / ___ कर्तृत्वादिकं च सर्वथाऽनित्यस्य न कथमप्युपपद्यते, कार्यसमये नश्यतो हेतोः कार्यजनकत्वात् / अन्यथा कालान्तरेऽपि कार्योत्पत्तेः प्रसङ्गात् / इति मनो नैवाऽऽत्मा भवितुमर्हति, किन्त्वन्य एव विज्ञानघनः शाश्वत, इति सिद्धम् / तथा च क्लेशविशिष्टस्याऽबाह्याकारस्य मनस आत्मत्वाभावोऽवसेयः / यतो हि तादृशस्य मनसो नित्यत्वे केवलं नामभेदः, अनित्यत्वे यथोक्तात्मलक्षणाभावः /