________________ स्तवकः ] कल्पलतावतारिका [ 25 षम् / विरचयति-समुत्पादयति / येषाम्-चार्वाकादीनाम् / मनसिहृदये / एषा-इयम्। अपि-सम्भावनायाम् / वाणी-वीतरागवचनम्। न-नहि / रमते-आनन्द लभते / स्वाऽऽग्रहग्रस्ततत्त्वालोकाः-स्वाऽऽ. ग्रहैर्निजाभिनिवेशविशेषैर्यस्तो दूषितस्तत्त्वस्य याथार्थ्यस्य आलोकः प्रकाशो यैस्ते तथा। प्रकृतिशठधियः-स्वभावतो दुष्टबुद्धयः / ते-ताहशदुष्टबुद्धित्वेन प्रसिद्धाः / एते-इमे / लोका:-चार्वाकादयो जनाः। हन्त हन्त-अव्ययद्वयमत्यन्तखेदं सूचयति / अनुकम्प्या:-दयनीयाः / तेषां कृतेऽन्या कापि गतिर्नास्तीति भावः / एवं समीचीनयुक्तिततिभिरात्मानं प्रसाध्य चार्वाकानुपहंसति, वाचकप्रवर: आत्मसिद्धेरिति - ( कल्पलता) आत्मसिद्धेः परं शोका-ल्लोकाः ! लोकायताननम् / समालोकामहे म्लानं, तत्र नो कारणं वयम् // 10 // अन्वयः-लोकाः ! परम् , आत्मसिद्धेः शोकाद् , लोकायताननं, म्लान, समालोकामहै, तत्र, वयं, कारणं, नो / ( कल्पलतावतारिका ) लोकाः-अयि भव्यजना: ! परम्-केवलम् / आत्मसिद्धेः-युक्तिततिकरणकदेहातिरिक्ताऽऽत्मसिद्धितः / पञ्चम्यर्थो जन्यत्वम्, तथा च आत्मसिद्धिजनितादित्यर्थः / शोकात्-हार्दिकशुचः / लोकायताननम्-चार्वाकवदनम् / म्लानम्-वैलक्ष्यमलिनम् / समालोकामहेपश्यामः / तत्र-चार्वाकवदनम्लानतायाम् / वयम्-आईताः / कारणम्