________________ 24 ] शास्त्रवार्तासमुच्चयस्य [ प्रथमः यथार्थागमबद्धबुद्धिः-यथार्थाऽऽहंतागमाभ्यासपरिपक्कमतिः / एषःप्रत्यक्षदृश्योऽहम् / अस्य-नैयायिकस्यापि / शिक्षाम्-दण्डम् / ननहि / दास्यामि-करिष्यामि, अपि तु करिष्याम्येवेति यावत् / अनुप्रासोऽत्रालङ्कारः / चार्वाकादीनुपहसन्त्युपाध्यायाः. (कल्पलता) बोधः स्वार्थावबोधक्षम इह निहताऽशेषदोषेण दृष्टस्तस्मादस्माकमन्तर्बिरचयति चमत्कारसारं विलासम् / येषामेषाऽपि वाणी मनसि न रमते स्वाऽऽग्रहग्रस्ततत्त्वाऽऽलोका लोकास्त एते प्रकृतिशठधियो हन्त हन्ताऽनुकम्प्याः // 9 // ___ अन्वयः तस्मात्, इह, निहिताऽशेषदोषेण, दृष्टः, स्वार्थावबोधक्षमः, बोधः, अस्माकम् , अन्तः, चमत्कारसारम् , विलासम् , रचयति, येषाम् , मनषि, एषाऽपि, वाणी, न, रमते, स्वाग्रहग्रस्ततत्त्वालोकाः प्रकृतिशठधियः, ते, एते, लोकाः, अनुकम्प्या, हन्त ! हन्त ! (कल्पलतावतारिका) तस्मात्-पूर्वोक्तहेतोः। इह-लोके। निहिताशेषदोषेण-विनाशितसमस्तदोषजातेन, वीतरागादिनेति भावः / दृष्ट:-अनुव्यवसितः / अनुव्यवसायविषयीकृत इति यावत् / स्वार्थावबोधक्षमः-स्व विषयावबोधनसमर्थः / "अर्थो विषयार्थनयोर्धनकारणवस्तुषु। अभिधेये च शब्दानां निवृत्तौ च प्रयोजने"इति मेदिनी। बोधः-ज्ञानम् / अस्माकम्आर्हतानाम् / अन्त:-अन्त:करणमध्ये / चमत्कारसारम्-चमत्कार आनन्दविशेषः सारः श्रेष्ठो यस्मिन् तत्तथा / विलासम्-विभ्रमविशे.